तदाज्ञया परं यान्ति महापद्माटवीस्थलम्
महाकुलाश्च पुरुषा विकल्पज्ञानधूसराः
महाशृङ्गारपरिखान्तरितुं न विचक्षणाः
महाशृङ्गारपरिखाधिकारी वर्तते स्मरः
महापद्माटवीं गन्तुं न को ऽपि भवति क्षमः
चिन्तामणिगृहं नाम चक्रराजमहालयः
महापद्माटवी नाम सर्वसौभाग्यदायिनी
चतुर्दिक्ष्वप्येवमेव गोपुराणां व्यवस्थितिः
शालास्तु विंशतिः प्रोक्ताः पञ्चसंख्याधिकाः शुभाः
पद्माटवीस्थलं वक्ष्ये सावधानो मुने शृणु
परितस्थलपद्मानि महाकाण्डानि संति वै
पत्राणि तालदशकमात्रायामानि संति वै
दशतालसमुन्नम्रः कर्णिकाः परिकीर्तिताः
बहुशः संति पद्मानि कोडीनामपि कोडिशः
क्रोशोन्नतो वह्निरूपो वर्तुलाकारसंस्थितः
अर्घ्यपात्रमहाधारो वर्तते कुम्भसम्भव
धूम्रार्चिःप्रमुखा भान्ति कला दश विभावसोः
परिष्वज्यैव परितो वर्तन्ते मन्मथालसाः
एता दशकलाः प्रोक्ता वह्नेराधाररूपिणः
सूर्यस्त्रिलोकीतिमिरप्रध्वंसप्रथितोदयः
योजनायामविस्तारं महाज्योतिः प्रकाशितम्
वर्तन्ते द्वादश कला अतिभास्वररोचिषः
सुषुम्णा भोगदा विश्वा बोधिनी धारिणी क्षमा
सर्वौंषधि रसाढ्यं च हृद्यसौरभसंयुतम्
वास्यमानं सदा हृद्यं शीतलं लघु निर्मलम्
सदा शब्दायमानं च भासतेर्ऽचनकारणम्
निशाकरकला हृद्याः क्रीडन्ति नवयौवनाः
शशिनी चन्द्रिका कान्तिर्ज्योत्स्ना श्रीः प्रीतिरङ्गदा
नवयौवनसंपूर्णाः सदा प्रहसिताननाः
जरा सिद्धिरिति प्रोक्ताः क्रीडन्ति ब्रह्मणः कलाः