अहङ्कारमहाशालः पूर्ववद्गोपुरान्वितः
विमर्शवापिका नाम सौषुम्णामृतरूपिणी
सुषुम्णदण्डविवरे जागर्ति परमामृतम्
पूर्ववत्तटसोपानपक्षिनौका हि ताः स्मृताः
तमालश्यामलाकारा श्यामकञ्चुकधारिणी
रत्नारित्रकरा नित्यमुल्लसन्मदमांसला
वापिका पयसागाधा पूर्ववत्परिकीर्तिता
सूर्यबिंबमहाशालश्चतुर्योजन मुच्छ्रितः
तन्मध्यकक्ष्या वसुधा खचिता कुरविन्दकैः
अतितीव्रतपस्तप्त्वा सूर्यो ऽलभत तां द्युतिम्
ते ऽत्रेव हि तपस्तप्त्वा लोकभासकतां गताः
वर्तते विन्ध्यदर्पारे पारे यस्तन्मयस्थितः
चक्षुष्मत्यपराशक्तिश्छाया देवी परा स्मृता
ललिताया महेशान्याः सदा विद्या हृदा जपन्
बहिरन्तस्तमोजालं समूलमवमर्दयन्
सूर्यबिम्बमहाशालान्तरे मारुतयोजने
पूर्ववद्गोपुरद्वारकपाटार्गलसंयुतः
तन्मध्यभूः समस्तापि चन्द्रिकाद्वारमुच्यते
अत्रिनेत्रसमुत्पन्नश्चन्द्रमाः कान्तिमाययौ
देवस्त्रलोक्यतिमिरध्वंसी संसारवर्तकः
सप्तविंशतिनक्षत्रशक्तिभिः परिवारितः
तत्रैव चन्द्रिकाद्वारे वर्तते भगवाञ्छशी
अश्विन्यादियुतस्तत्र कालं नयति चन्द्रमाः
सन्ति तस्यैव निकटे सा कक्षा तत्प्र पूरिता
शृङ्गारो नाम शालो ऽस्ति चतुर्योजनमुच्छ्रितः
महाशृङ्गारपरिखा तन्मध्ये वसुधाखिला
शृङ्गारशक्तयः सन्ति नानाभूषणभासुराः
उपासते सदा सत्तं नौकास्थं कुसुमायुधम्
विशिखैरखिलांल्लोकांल्ललिताज्ञावशंवदः
सावधानेन मनसा यान्ति पद्माटदीस्थलम्