तन्वाना सततं तारा कक्ष्यामेनां हि रक्षति
बुद्धिशाल इति ख्यातश्चतुर्योजनमुच्छ्रितः
प्रतप्तकनकच्छायं तज्जलत्वेन वर्त्तते
सोपानादिक्रमश्चैव पक्षिणास्तत्र पूर्ववत्
विहरन्ति मदोन्मत्ताः शक्तयो मदपाटलाः
यां सुधामालिनीमाहुर्यामा हुरमृतेश्वरीम्
ईषदालोकमात्रेण त्रैलोक्यमददायिनी
पारिजातप्रसूनस्रक्परिवीतकचाचिता
पक्वं पिशितखण्डं च मणिपात्रे तथान्यके
ददाति वापीतरणं त्रिनेत्रस्यापि नान्यथा
अहङ्कारमहाशालः पूर्ववद्गोपुरान्वितः
विमर्शवापिका नाम सौषुम्णामृतरूपिणी
सुषुम्णदण्डविवरे जागर्ति परमामृतम्
पूर्ववत्तटसोपानपक्षिनौका हि ताः स्मृताः
तमालश्यामलाकारा श्यामकञ्चुकधारिणी
रत्नारित्रकरा नित्यमुल्लसन्मदमांसला
वापिका पयसागाधा पूर्ववत्परिकीर्तिता
सूर्यबिंबमहाशालश्चतुर्योजन मुच्छ्रितः
तन्मध्यकक्ष्या वसुधा खचिता कुरविन्दकैः
अतितीव्रतपस्तप्त्वा सूर्यो ऽलभत तां द्युतिम्
ते ऽत्रेव हि तपस्तप्त्वा लोकभासकतां गताः
वर्तते विन्ध्यदर्पारे पारे यस्तन्मयस्थितः
चक्षुष्मत्यपराशक्तिश्छाया देवी परा स्मृता
ललिताया महेशान्याः सदा विद्या हृदा जपन्
बहिरन्तस्तमोजालं समूलमवमर्दयन्
सूर्यबिम्बमहाशालान्तरे मारुतयोजने
पूर्ववद्गोपुरद्वारकपाटार्गलसंयुतः
तन्मध्यभूः समस्तापि चन्द्रिकाद्वारमुच्यते
अत्रिनेत्रसमुत्पन्नश्चन्द्रमाः कान्तिमाययौ
देवस्त्रलोक्यतिमिरध्वंसी संसारवर्तकः