वीणावेणुमृदङ्गादि वादयन्त्यो मुहुर्मुहुः
मुहुर्गायन्ति नृत्यन्ति देव्याः पुण्यतमं यशः
पिबन्त्यस्तत्सुधातोयं संचरन्त्यस्तरीशतैः
प्रधानभूता तारांबा जलौघशमनक्षमा
त्रिनेत्रस्यापि नो दत्ते वापिकांभसि सन्तरम्
महाराज्ञी महौदार्यं पतन्तीनां पदेपदे
प्रतिनौकं मणिगृहे वसन्तीनां मनोहरे
काश्चिन्नौकाः सुवर्णाढ्याः काश्चिद्रत्नकृता मुने
काश्चित्सिंहासना नावः काश्चिद्दन्तावलाननाः
तारांबामहतीं नौकामधिगम्य विराजते
तन्वाना सततं तारा कक्ष्यामेनां हि रक्षति
बुद्धिशाल इति ख्यातश्चतुर्योजनमुच्छ्रितः
प्रतप्तकनकच्छायं तज्जलत्वेन वर्त्तते
सोपानादिक्रमश्चैव पक्षिणास्तत्र पूर्ववत्
विहरन्ति मदोन्मत्ताः शक्तयो मदपाटलाः
यां सुधामालिनीमाहुर्यामा हुरमृतेश्वरीम्
ईषदालोकमात्रेण त्रैलोक्यमददायिनी
पारिजातप्रसूनस्रक्परिवीतकचाचिता
पक्वं पिशितखण्डं च मणिपात्रे तथान्यके
ददाति वापीतरणं त्रिनेत्रस्यापि नान्यथा
अहङ्कारमहाशालः पूर्ववद्गोपुरान्वितः
विमर्शवापिका नाम सौषुम्णामृतरूपिणी
सुषुम्णदण्डविवरे जागर्ति परमामृतम्
पूर्ववत्तटसोपानपक्षिनौका हि ताः स्मृताः
तमालश्यामलाकारा श्यामकञ्चुकधारिणी
रत्नारित्रकरा नित्यमुल्लसन्मदमांसला
वापिका पयसागाधा पूर्ववत्परिकीर्तिता
सूर्यबिंबमहाशालश्चतुर्योजन मुच्छ्रितः
तन्मध्यकक्ष्या वसुधा खचिता कुरविन्दकैः
अतितीव्रतपस्तप्त्वा सूर्यो ऽलभत तां द्युतिम्