आग्नेय्यामरविन्दाभो मुसली मधुसूदनः
वायव्यां वामनो वज्री तरुणादित्य दीप्तिमान्
विद्युत्प्रभो हृषीकेशो ह्यवाच्यां दिशि मुद्गरी
माणिक्यमण्डपस्थानमनुलोम्येन वेष्टते
इन्द्रगोपकसंकाशः पाशहस्तो ऽपराजितः
माणिक्यमण्डपस्थानं विलोमेन विवेष्टते
माणिक्यमण्डपगतो विष्णुलोके विराजते
सहस्रस्तम्भकं नाम मण्डपं सुमनोहरम्
नानारत्नकृतश्शालस्तुङ्गस्तत्राभिवर्तते
तादृशाः पङ्क्तयो बह्व्यः स्तम्भानां तु चतुर्दिशम्
शिवलोकस्तत्र महाञ्जागर्ति स्फुरितद्युतिः
नन्दिभृङ्गिमहाकालप्रमुखास्तत्र चोत्तमाः
शिवलोकोत्तमे तस्मिन्सहस्रस्तम्भमण्डपे
ललिताज्ञापालकश्च ललिताज्ञाप्रवर्तकः
शैव्या दृष्ट्या स्वभक्तानां ललितामन्त्रसिद्धये
महाप्रकाशरूपां तां मेधाशक्ति प्रकाशयन्
तत्तच्छालान्समाश्रित्य वर्तते कुम्भसंभवः
एषां श्रवणमात्रेण जायते श्रीमहोदयः
मनो नाम महाशालः सर्वरत्नविचित्रितः
तन्मध्यकक्ष्याभागस्तु सर्वाप्यमृतवापिका
भवन्ति पुरुषाः प्राज्ञास्तदेव हि रसायनम्
तद्गन्धाघ्राणमात्रेण सिद्धिकान्तापतिर्भवेत्
उभयोः शालयोः पार्श्वे सुधावापीतटद्वये
चतुर्योजनदूरं तु तलं तस्या जलान्तरे
स्वर्णवर्णा रत्नवर्णास्तस्यां हंसाश्च सारसाः
पक्षिणस्तज्जलं पीत्वा रसायनमयं नवम्
सदाकूजितलक्षेण तत्र कारण्डवद्विजाः
परितो वापिकाचक्रपरिवेषणभूयसा
तारा नाम महाशक्तिर्वर्तते तोरणेश्वरी
रत्ननौकासहस्रेण खेलन्त्यो सरसीजले