द्वीपभेदसहस्राणि सप्तस्वन्तर्गतानि च
सप्त द्वीपान्प्रवक्ष्यामि चन्द्रादित्यग्रहैः सह
अचिन्त्याः खलु ये भावा न तांस्तर्केण साधयेत्
नववर्षं प्रवक्ष्यामि जंबूद्वीपं यथातथम्
शतमेकं सहस्राणां योजनाग्रात्समन्ततः
सिद्धचारणसंकीणः पर्वतैरुपशोभितः
पर्वतप्रभवाभिश्च नदीभिः सर्वतस्ततः
नवभिश्चावृतः सर्वो भुवनैर्भूतभावनैः
जंबूद्वीपस्य विस्तारात् समेन तु समन्ततः
अवगाढा ह्युभयतः मसुद्रौ पूर्वपश्चिमौ
सर्वर्त्तुषु सुखश्चापि निषधः पर्वतो महान्
द्वात्रिंशच्च सहस्राणि विस्तीर्णः स च मूर्द्धनि
नानावर्णास्तु पार्श्वेषु प्रजापतिगुणान्वितः
पूर्वतर्ः श्वेतवर्णश्च ब्राह्मणस्तस्य तेन तत्
तेनास्य क्षत्त्रभावस्तु मेरोर्नानार्थकारणात्
भृङ्गपत्रनिभश्चापि पश्चिमेन समाचितः
वृत्तः स्वभावतः प्रोक्तो वर्णतः परिमाणतः
मयुरबर्हवर्णस्तु शातकैंभश्च शृङ्गवान्
तेषामन्तरविष्कंभो नवसाहस्र उच्यते
नवैवं तु सहस्राणि विस्तीर्णं सर्वतस्तु तत्
वेद्यर्द्धं दक्षिणं मेरोरुत्तरार्द्धं तथोत्तरम्
द्वे द्वे सहस्रे विस्तीर्णा योजनानां समुच्छ्रयात्
योजनानां सहस्राणि शतं द्वावायतौ गिरी
श्वेतश्च हेमकूटश्च हिमवाञ्छृङ्गवांस्तथा
तेषां मध्ये जनपदास्तानि वर्णाणि सप्त वै
संततानि नदीभेदैरगम्यानि परस्परम्
इदं हैमवतं वर्षं भारतं नाम विश्रुतम्
नैषधं हेमकूटात्तु हरिवर्षं तदुच्यते
इलावृतात्पिरं नीलं सम्यकं नाम विश्रुतम्
हिरण्मयात्परं चैव शृङ्गवत्तः कुरु स्मृतम्