सदा श्रीललितादेव्याः सेवनार्थमतन्द्रितः
चतुर्दशापि विद्यास्ता उपविद्याः सहस्रशः
वर्तन्ते जगतामृद्ध्यै ललिता देवताज्ञया
वर्तते विष्णुलोकस्तु ललितासेवनोत्सुकः
विभिन्नमूर्तिः सततं वर्तते माधवः सदा
दशावतारदेवास्तु ते ऽपि माणिक्यमण्डपे
उपर्याच्छादनामात्रं माणिक्यदृषदां गणैः
भिन्नो द्वादशमूर्त्या च पूर्वाद्याशासुरक्षति
पश्चान्नारायणः शङ्खी नीलजीमूतसंनिभः
गोविन्दो दक्षिणे पार्श्वे धन्वी चन्द्रप्रभो महान्
आग्नेय्यामरविन्दाभो मुसली मधुसूदनः
वायव्यां वामनो वज्री तरुणादित्य दीप्तिमान्
विद्युत्प्रभो हृषीकेशो ह्यवाच्यां दिशि मुद्गरी
माणिक्यमण्डपस्थानमनुलोम्येन वेष्टते
इन्द्रगोपकसंकाशः पाशहस्तो ऽपराजितः
माणिक्यमण्डपस्थानं विलोमेन विवेष्टते
माणिक्यमण्डपगतो विष्णुलोके विराजते
सहस्रस्तम्भकं नाम मण्डपं सुमनोहरम्
नानारत्नकृतश्शालस्तुङ्गस्तत्राभिवर्तते
तादृशाः पङ्क्तयो बह्व्यः स्तम्भानां तु चतुर्दिशम्
शिवलोकस्तत्र महाञ्जागर्ति स्फुरितद्युतिः
नन्दिभृङ्गिमहाकालप्रमुखास्तत्र चोत्तमाः
शिवलोकोत्तमे तस्मिन्सहस्रस्तम्भमण्डपे
ललिताज्ञापालकश्च ललिताज्ञाप्रवर्तकः
शैव्या दृष्ट्या स्वभक्तानां ललितामन्त्रसिद्धये
महाप्रकाशरूपां तां मेधाशक्ति प्रकाशयन्
तत्तच्छालान्समाश्रित्य वर्तते कुम्भसंभवः
एषां श्रवणमात्रेण जायते श्रीमहोदयः
मनो नाम महाशालः सर्वरत्नविचित्रितः
तन्मध्यकक्ष्याभागस्तु सर्वाप्यमृतवापिका