वर्तते सायुधाः प्राज्ञ नित्यं पञ्चादशावृतौ
विक्षिणत्काविचिन्वत्कास्तथा निर्हतनामकाः
इति षोडशशालेषु स्थितै रुद्रैः सहस्रशः
वर्तते जगतामृद्ध्यै मुक्ताशालेशकोणके
अभक्तांल्लरितादेव्याः प्रत्यूहैर्योजयन्त्यमी
ललितापरमेश्वर्याः सेवामेव वितन्वते
शालोमारकताभिख्यश्चतुर्योजनमुच्छ्रितः
तत्र श्रीदण्डनाथाया दहनादिविदिग्गताः
गीतिचक्ररथेन्द्रस्य याः पर्वाणि समाश्रिताः
सर्वाः स्थल्यो मरकतश्रेणिभिः खचिताः शुभाः
तत्रदेव्यः समस्ताश्च दण्डनाथासमश्रियः
संख्यातीतास्तालवृक्षा नवस्वर्णविचित्रिताः
हेमत्वचो ऽतिसुस्निग्धाः सच्छायाः फलभङ्गुराः
वर्तन्ते दण्डनाथायाः प्रीत्यर्थं शिल्पिभिः कृताः
जृंभिण्याद्याश्चक्रदेव्यो हेतुकाद्याश्च भैरवाः
चतुर्विदिक्षु दण्डिन्या यत्रयत्र महादृशः
उन्मत्तभैरवी चव स्वप्नेशी सर्वतोदिशम्
तत्कक्षातिदवीयस्त्वान्सेवार्थं तत्र तद्गृहः
प्राकारो विद्रुमाकारः प्रातरर्यमपाटलः
तद्वद्विद्रुमसंकाशो ब्रह्मा नलिनविष्टरः
सदा श्रीललितादेव्याः सेवनार्थमतन्द्रितः
चतुर्दशापि विद्यास्ता उपविद्याः सहस्रशः
वर्तन्ते जगतामृद्ध्यै ललिता देवताज्ञया
वर्तते विष्णुलोकस्तु ललितासेवनोत्सुकः
विभिन्नमूर्तिः सततं वर्तते माधवः सदा
दशावतारदेवास्तु ते ऽपि माणिक्यमण्डपे
उपर्याच्छादनामात्रं माणिक्यदृषदां गणैः
भिन्नो द्वादशमूर्त्या च पूर्वाद्याशासुरक्षति
पश्चान्नारायणः शङ्खी नीलजीमूतसंनिभः
गोविन्दो दक्षिणे पार्श्वे धन्वी चन्द्रप्रभो महान्