मीढुष्टम इति प्रोक्ता रुद्रा दशमशालगाः
बृहंश्च वर्षीयां श्चैव वृद्धः समृद्धिना सह
उर्म्यावस्वन्यरुद्रौ च स्रोतस्यो दिव्य एव च
मध्यमश्चावगम्यश्च जघन्यश्च घटोद्भव
अथ बुध्न्यः सोम्यरुद्रः प्रतिसर्पकयाम्यकौ
वन्यः कक्ष्यः श्रवश्चैव ततो ऽन्यस्तु प्रतिश्रवः
अवभिन्दश्च वर्मी च वरूथी बिल्मिना सह
द्वादशावरणस्थास्ते महाकाया महाबलाः
अन्यस्त्विषुधिमानन्यस्तक्ष्णेषुश्च तथा युधि
काप्यो नाढ्यस्तथा सूधः सरस्यो विन्ध्यमर्दन
अवधवर्ष्यो ऽवर्ष्यश्च मेध्यो विद्युत्य एव च
वास्तव्यो वास्तुपश्चैव सोमश्चेति महाबलाः
रुद्रस्ताम्रारुणः शङ्गस्तथा पशुपतिर्मुने
हन्ता चैव हनीयांश्च वृषश्च हरिकेशकः
पार्यो ऽपार्यः प्रतरणस्तथा चोत्तरणो मुने
चतुर्दशावरणके कथिता रुद्रदेवताः
प्रपथ्यः किंशिलश्चैव क्षयणस्तदनन्तरम्
तल्पयो गेह्य स्तथा काट्यो गह्वरेष्ठोरुदीपकः
हरीत्यलोथा लोप्याश्च उर्य्यसूर्म्यै तथा मुने
अभिघ्ननाशिदुश्चैव प्रखिदन किरिकास्तथा
वर्तते सायुधाः प्राज्ञ नित्यं पञ्चादशावृतौ
विक्षिणत्काविचिन्वत्कास्तथा निर्हतनामकाः
इति षोडशशालेषु स्थितै रुद्रैः सहस्रशः
वर्तते जगतामृद्ध्यै मुक्ताशालेशकोणके
अभक्तांल्लरितादेव्याः प्रत्यूहैर्योजयन्त्यमी
ललितापरमेश्वर्याः सेवामेव वितन्वते
शालोमारकताभिख्यश्चतुर्योजनमुच्छ्रितः
तत्र श्रीदण्डनाथाया दहनादिविदिग्गताः
गीतिचक्ररथेन्द्रस्य याः पर्वाणि समाश्रिताः
सर्वाः स्थल्यो मरकतश्रेणिभिः खचिताः शुभाः