श्रीदेव्या ध्याननिषणाताञ्छ्रीदेवीमन्त्रजापिनः
षोडशावरणं चक्रं मुक्ताप्राकारमण्डले
हिरण्यबाहुप्रमुखा ज्वलन्मन्युमुपासते
तत्र स्थिताश्च रुद्राः के केन नाम्ना प्रकीर्तिताः
यौगिकं रौढिकं नाम तेषां ब्रूहि कृपानिधे
पञ्चयोजनविस्तारस्तत्संख्यायामशोभितः
मध्यपीठे महारुद्रो ज्वलन्मन्युस्त्रिलोचनः
त्रिकोणे कथिता रुद्रास्त्रय एव घटोद्भव
हिरण्य बाहुः सेनानीर्दिशांपतिरथापरः
शष्पिञ्जरस्त्विषीमांश्च पथीनां पतिरेव च
विव्याध्यन्नपतिश्चैव हरिकेशोपवीतिनौ
दशापत्रे त्वावरणे प्रथमो जगतां पतिः
अहं त्वन्यो वनपती रोहितः स्थपतिस्तथा
मन्त्री च वाणिजश्चैव तथा कक्षपतिः परः
ओषधीनां पतिश्चैव षष्ठः कलशसंभव
कृत्स्नवीतश्च धावंश्च सत्त्वानां पतिरेव च
सहमानश्च निर्व्याधिरव्याधीनां पतिस्तथा
निचेरुश्चेति विज्ञेयाः षष्ठावरणदेवताः
जिघांसंतो मुष्णतां च पतयः कुंभसंभव
प्रकृतीनां पतिश्चैव उष्णीषी च गिरेश्चरः
धन्वाविदश्चातन्वानप्रतिपूर्वदधानकाः
विसृजन्तस्तथास्यन्तो विध्यन्तश्चापि सिंधुप
तिष्ठन्तश्चैव धावन्तः सभ्याश्चैव समाधिपाः
विविध्यन्तो गणाध्यक्षा बृहन्तो विन्ध्यमर्द्दन
अथ गृत्साधिपतयो व्राता व्राताधिपास्तथा
महान्तः क्षुल्लकाश्चैव रथिनश्चारथाः परे
क्षत्तारः संग्रही तारस्तक्षाणो रथकारकाः
कर्माराश्चैव पुञ्जिष्ठा निषादाश्चेषुकृद्गणाः
अश्वाश्चैवश्वपतयो भवो रुद्रो घटोद्भव
कपर्दी व्युप्तकेशश्च सहस्रक्षस्तथापरः