पूजयन्भावयन्नास्ते सर्वाभरणभूषितः
यक्षेन्द्रो वसति श्रीमांस्तद्द्वारद्वन्द्वमध्यगः
सहितो ललिताभक्तान्पूरयन्धनसम्पदा
विविधैर्मधुभेदैश्च सम्पूजयति चक्रिणीम्
इत्येवमादयो यक्षसेनान्यस्तत्र संति वै
अनर्ध्यरत्नखचितस्तत्र रुद्रो ऽधिदेवता
स्वसमानैर्महासत्त्वैलोङ्कनिर्वाहदक्षिणैः
आवृतः सततं वक्त्रैर्जपञ्छीदेवतामनुम्
अनेककोटिरुद्राणीगणमण्डितपार्श्वभूः
ललिताध्याननिरनाः सदासवमदालसाः
हिरण्यबाहुप्रमुशै रुद्रैरन्यैर्निषेवितः
शूलकोट्या विनिर्भिद्य नेत्रोत्थैः कटुपावकैः
आज्ञाधरो महावीरो ललिताज्ञाप्रपालकः
महारुद्रस्य तस्यर्षे परिवाराः प्रमाथिनः
ये रुद्रा अधिभूम्यां तु सहस्राणां सहस्रशः
येषामन्नमिषश्चव येषां वातास्तथेषवः
अर्णवे चान्तरिक्षे च वर्तमाना महौजसः
ये भूतानामधिभुवो विशिखासः कपर्दिनः
ये पथां रथका रुद्रा ये च तीर्थनिवासिनः
ललिताज्ञाप्रणेतारो दिशो रुद्रा वितस्थिरे
श्रीदेव्या ध्याननिषणाताञ्छ्रीदेवीमन्त्रजापिनः
षोडशावरणं चक्रं मुक्ताप्राकारमण्डले
हिरण्यबाहुप्रमुखा ज्वलन्मन्युमुपासते
तत्र स्थिताश्च रुद्राः के केन नाम्ना प्रकीर्तिताः
यौगिकं रौढिकं नाम तेषां ब्रूहि कृपानिधे
पञ्चयोजनविस्तारस्तत्संख्यायामशोभितः
मध्यपीठे महारुद्रो ज्वलन्मन्युस्त्रिलोचनः
त्रिकोणे कथिता रुद्रास्त्रय एव घटोद्भव
हिरण्य बाहुः सेनानीर्दिशांपतिरथापरः
शष्पिञ्जरस्त्विषीमांश्च पथीनां पतिरेव च