पिबन्तो मधुरं मद्यं नृत्यन्तो भक्तिनिर्भराः
लतागृहेषु रम्येषु मन्दिरेषु महर्द्धिषु
निवसंति महाभागा नारीभिः परिवेष्टिताः
पुनर्यान्ति श्रीनगरे शक्रनीलमहास्थलीम्
नीलैर्भावैः सदा युक्ता वर्तन्ते मनुजा मुने
ते मुने विस्मयाविष्टाः संविशन्ति महेश्वरीम्
मुक्ताफलमयःशालः पूर्ववद्गोपुरान्वितः
सर्वापि मुक्ताखचिताः शिशिरातिमनोहराः
एवमाद्या महानद्यः प्रवरन्ति महास्थले
वसंति पूर्वजनुषि श्रीदेवीमन्त्रसाधकाः
मुक्ताशालस्य परितः संयुज्य द्वारदेशकान्
पूर्वभागे शक्रलोकस्तत्कोणे वह्निलोकभूः
सर्वत्र ललितामन्त्रजापी तीव्रस्वभाववान्
सार्धं नियमयत्येव श्रीदेवीसमयं गुहः
कूडभक्तिपरान्मूर्खांस्तब्धानत्यन्तदर्पितान्
नास्तिकान्पापशीलांश्च वृथैव प्राणिहिंसकान्
कालसूत्रे रौरवे च कुम्भीपाके च कुम्भज
लालाक्षेपे सूचिवेधे तथैवाङ्गारपातने
पातयत्याज्ञया तस्याः श्रीदेव्याः स महौजसः
राक्षसं लोकमाश्रित्य वर्तते ललितार्चकः
वारुणं लोकमाश्रित्य वरुणे वर्तते सदा
सदा श्रीदेवतामं त्रजापी श्रीक्रमसाधकः
बद्ध्वा नयत्यधोमार्गं भक्तानां बन्धमोचकः
तत्र वायुशरीराश्च सदानन्दमहोदयाः
गोरक्षप्रमुखाश्चान्ये योगिनो योगतत्पराः
सर्वथा भिन्नमूर्तिश्च वर्तते कुम्भसम्भव
तिस्रो मारुतनाथस्य सदा मधुमदालसाः
ललितायजनध्यानक्रमपूजनतत्परः
स मारुतेश्वरः श्रीमान्सदा जपति चक्रिणीम्
परागमयतां नीत्वा विनोदयति तत्क्षणात्