तपनस्य कराश्चन्द्रकरो वेदाश्च पावकः
जन्मनः कारणान्येतान्या मनन्ति मनीषिणः
एताः समस्ता गन्धर्वैः सार्धमर्चन्ति चक्रिणीम्
स्त्रीभिः सह मदोन्मत्ता हीरकस्थलमाश्रिताः
नृत्यन्तश्चैव गायन्तो वर्तन्ते कुंभसंभव
वज्रकारैर्निबिडिता भासमाना तटद्रुमैः
सदा वहति सा सिंधुः परितस्तत्र पावनी
दीर्घायुषश्च नीरोगा भवन्ति कलशोद्भव
तरयास्तीरे तपस्तेपे वज्रेशीं प्रति भक्तिमान्
पुनरन्तर्दधेसो ऽपि कृतार्थःस्वर्गमेयिवान्
स्थाली च तत्र वैदृर्यनिर्मिता भास्वराकृतिः
ते सिद्धमूर्तयस्तत्र वसन्ति सुखमेदुराः
तक्षकः शङ्खचूडश्च महादन्तो महाफणः
गणस्तत्र तथा नागैः सार्धं वसति सांगनाः
ललितापूजका नित्यं वसन्त्यसुरभोगिनः
सरांसिविमलांभांसि सारसालङ्कृतानि च
तेषु क्रीडन्ति ते नागा असुराश्च सहाङ्गनाः
इन्द्रनीलमयः शालश्चक्रवाल इवापरः
नानाविधानि भोग्यानि वस्तूनि सरसान्यपि
ते देहान्ते शक्रनीलकक्ष्यां प्राप्य वसंति वै
पिबन्तो मधुरं मद्यं नृत्यन्तो भक्तिनिर्भराः
लतागृहेषु रम्येषु मन्दिरेषु महर्द्धिषु
निवसंति महाभागा नारीभिः परिवेष्टिताः
पुनर्यान्ति श्रीनगरे शक्रनीलमहास्थलीम्
नीलैर्भावैः सदा युक्ता वर्तन्ते मनुजा मुने
ते मुने विस्मयाविष्टाः संविशन्ति महेश्वरीम्
मुक्ताफलमयःशालः पूर्ववद्गोपुरान्वितः
सर्वापि मुक्ताखचिताः शिशिरातिमनोहराः
एवमाद्या महानद्यः प्रवरन्ति महास्थले
वसंति पूर्वजनुषि श्रीदेवीमन्त्रसाधकाः