वसंति विविधास्तत्र पिबन्ति मदिरारसान्
पुष्परागादिजं ज्ञेयमुच्चेन्द्वादित्यभास्वरम्
अन्तरे या स्वली सापि पुष्परागमयी स्मृता
तद्वर्णाः पक्षिणस्तत्र तद्वर्णानि सरांसि च
त्यक्तवन्तो वपुः पूर्वं ते सिद्धास्तत्र सांगनाः
ते सर्वे ललितादेव्या नामकीर्तनकारिणः
पद्मरागमयः शालश्चतुरस्रः समन्ततः
सिद्धिं प्राप्ता महाराज्ञीचरमाम्भोजसेवकाः
गायन्ति ललितादेव्या गीतिबन्धान्मुहुर्मुहुः
भर्तृभिः सहचारिण्यः पिबन्ति मधुरं मधु
अतितुङ्गो हीरशालस्तयोर्मध्ये च हीरभूः
वसन्त्यप्सरसां वृन्दैः साकं गन्धर्वपुङ्गवाः
सुकुमारप्रकृतयः श्रीदेवीभक्तिशालिनः
कालसङ्कर्षणीमंबां सेवन्ते तत्र भक्तितः
उर्वशी मेनका चैव रम्भा चालंबुषा तथा
कृतस्थला च विश्वाची पुञ्जिकस्थलया सह
गन्धर्वैः सह नव्यानि कल्पवृक्षम धूनि च
स्वसौभाग्यविवृद्ध्यर्थं गुणयन्त्यश्च तन्मनुम्
तत्रैव देवीमर्चन्त्यो वसंति मुदिताशयाः
कीर्तय त्वं महाप्राज्ञ सर्वविद्यामहानिधे
तपनस्य कराश्चन्द्रकरो वेदाश्च पावकः
जन्मनः कारणान्येतान्या मनन्ति मनीषिणः
एताः समस्ता गन्धर्वैः सार्धमर्चन्ति चक्रिणीम्
स्त्रीभिः सह मदोन्मत्ता हीरकस्थलमाश्रिताः
नृत्यन्तश्चैव गायन्तो वर्तन्ते कुंभसंभव
वज्रकारैर्निबिडिता भासमाना तटद्रुमैः
सदा वहति सा सिंधुः परितस्तत्र पावनी
दीर्घायुषश्च नीरोगा भवन्ति कलशोद्भव
तरयास्तीरे तपस्तेपे वज्रेशीं प्रति भक्तिमान्
पुनरन्तर्दधेसो ऽपि कृतार्थःस्वर्गमेयिवान्