देवतास्तु परं भिन्नाः शुक्रशुच्यादिभेदतः
एवं वर्षादिके चक्रे भेदान्नभवभस्यजान्
ग्रन्थविस्तारभीत्या तु तत्संख्यानाद्विरम्यते
ललितापूजनध्यानजपस्तोत्रपरायणाः
स्वस्वपुष्पोत्थमधुभिस्तर्पयन्त्यो महेश्वरीम्
एवं सप्तसु शालेषु पालिकाश्चक्रदेवताः
विस्तारं तत्र शक्तिं च कथयाम्यवधारय
अथ रत्नमयाः शालाः प्रकीर्त्यन्ते ऽवधारय
सप्तयोजनमात्रं स्यान्मध्येन्तरमुदात्दृतम्
रसै रसायनैश्चापि खड्गैः पादाञ्जनैरपि
वसंति विविधास्तत्र पिबन्ति मदिरारसान्
पुष्परागादिजं ज्ञेयमुच्चेन्द्वादित्यभास्वरम्
अन्तरे या स्वली सापि पुष्परागमयी स्मृता
तद्वर्णाः पक्षिणस्तत्र तद्वर्णानि सरांसि च
त्यक्तवन्तो वपुः पूर्वं ते सिद्धास्तत्र सांगनाः
ते सर्वे ललितादेव्या नामकीर्तनकारिणः
पद्मरागमयः शालश्चतुरस्रः समन्ततः
सिद्धिं प्राप्ता महाराज्ञीचरमाम्भोजसेवकाः
गायन्ति ललितादेव्या गीतिबन्धान्मुहुर्मुहुः
भर्तृभिः सहचारिण्यः पिबन्ति मधुरं मधु
अतितुङ्गो हीरशालस्तयोर्मध्ये च हीरभूः
वसन्त्यप्सरसां वृन्दैः साकं गन्धर्वपुङ्गवाः
सुकुमारप्रकृतयः श्रीदेवीभक्तिशालिनः
कालसङ्कर्षणीमंबां सेवन्ते तत्र भक्तितः
उर्वशी मेनका चैव रम्भा चालंबुषा तथा
कृतस्थला च विश्वाची पुञ्जिकस्थलया सह
गन्धर्वैः सह नव्यानि कल्पवृक्षम धूनि च
स्वसौभाग्यविवृद्ध्यर्थं गुणयन्त्यश्च तन्मनुम्
तत्रैव देवीमर्चन्त्यो वसंति मुदिताशयाः
कीर्तय त्वं महाप्राज्ञ सर्वविद्यामहानिधे