ऋषभाद्भरतो जज्ञे वीरः पुत्रशताग्रजः
हिमाह्वं दक्षिणं वर्षं भरताय न्यवेदयत्
भरतस्यात्मजो विद्वान्सुमतिर्नाम धार्मिकः
पुत्रसंक्रामितश्रीस्तु वनं राजा विवेश सः
तेजसस्यात्मजो विद्वानिन्द्रद्युम्न इति स्मृतः
प्रतीहारः कुलं तस्य नाम्ना जज्ञे तदन्वयः
उन्नेता प्रतिहर्तुस्तु भूमा तस्य सुतः स्मृतः
प्रस्तावेस्तु विभुः पुत्रः पृथुस्तस्य सुतो ऽभवत्
गयस्यापि नरः पुत्रो नरस्यापि सुतो विराट्
धीमतश्च महान्पुत्रो महतश्चापि भौवनः
रजा विरजसः पुत्रः शतजिद्रजसस्तथा
विश्वज्योतिष्प्रधानास्ते यैरिमा वर्द्धिताः प्रजाः
तेषां वंशप्रसूतैस्तु भुक्तेयं भारती पुरा
ये ऽतीतास्तैर्युगैः सार्धं राजानस्ते तदन्वयाः
एवं स्वायं भुवः सर्गो येनेदं पूरितं जगत्
तेषां सृष्टिरियं प्रोक्ता युगैः सह विवर्त्तते
पप्रच्छ नियतं सूतं पृथिव्युद धिविस्तरम्
कियन्ति चैव वर्षाणि तेषु नद्यश्च काः स्मृताः
एतत्प्रबूहि नः सर्वं विस्तरेण यथार्थतः
हन्त वो ऽहं प्रवक्ष्यामि पृथिव्यायामविस्तरम्
द्वीपभेदसहस्राणि सप्तस्वन्तर्गतानि च
सप्त द्वीपान्प्रवक्ष्यामि चन्द्रादित्यग्रहैः सह
अचिन्त्याः खलु ये भावा न तांस्तर्केण साधयेत्
नववर्षं प्रवक्ष्यामि जंबूद्वीपं यथातथम्
शतमेकं सहस्राणां योजनाग्रात्समन्ततः
सिद्धचारणसंकीणः पर्वतैरुपशोभितः
पर्वतप्रभवाभिश्च नदीभिः सर्वतस्ततः
नवभिश्चावृतः सर्वो भुवनैर्भूतभावनैः
जंबूद्वीपस्य विस्तारात् समेन तु समन्ततः
अवगाढा ह्युभयतः मसुद्रौ पूर्वपश्चिमौ