ललिताभक्तदेशांस्तु भूषयन्स्वस्य सम्पदा
वर्तते सततं देवीकिङ्करौ जलदागमः
तां कक्षां रक्षति श्रीमांल्लोकचित्तप्रसादनः
अभ्यर्चयति साम्राज्ञीं श्रीकामेश्वरयोषितम्
सदा प्रसन्नवदनो ललिताप्रियकिङ्करः
पारिजातस्य वाटीं तु रक्षति ज्वलनार्दनः
कदम्बवनवाट्यास्तु रक्षकः शिशिराकृतिः
सा कक्ष्या तेन सर्वत्र शीशिरीकृतभूतला
ताभ्यां सहार्चयत्यंबां ललितां विश्वपावनीम्
प्रथमोद्यानपालस्तु महाकालो मया श्रितः
पालकत्वं श्रुतं त्वत्तश्चक्रदेव्यस्तु न श्रुताः
क्रमेण ब्रूहि भगवन्सर्वज्ञो ऽसि यतो महान्
आकर्णय मुनिश्रेष्ट तत्तच्चक्रस्थदेवताः
षोडशारं सरोजं च दशारद्वितयं पुनः
तन्मध्ये बिन्दुचक्रस्थो वसन्तर्तुर्महाद्युति
उभाभ्यां निजहस्ताभ्यामुभयोस्तनमेककम्
सपुष्पमदिरापूर्मचषकं पिशितं वहन्
अङ्कस्थितं तु विज्ञेयं शक्तयो ऽन्याः समीपगाः
मधुशुक्लप्रथमिका मधुशुक्लद्वितीयिका
मधुशुक्ला पञ्चमी च मधुशुक्ला च षष्ठिका
नवमी मधुशुक्ला च दशमी मधुशुक्लिका
मधुशुक्लत्रयोदश्यां मधुशुक्ला चतुर्दशी
मधुकृष्णा द्वितीया च तृतीया मधुकृष्णिका
षष्टी तु मधुकृष्णा स्यात्सप्तमी मधुकृष्मतः
दशमी मधुकृष्णा च विन्ध्यदर्पनिषूदन
मधुकृष्णत्रयोदश्या मधुकृष्णचतुर्दशी
एवमेव प्रकारेण माधवाख्यो परिस्थिताः
मिलित्वा षष्टिसंख्यास्तु ख्याता वासन्तशक्तयः
वासन्तचक्रराजस्य सप्तावरणभूमयः
विभज्य चार्चनीयाः स्युस्तत्तन्मन्त्रैस्तु साधकैः