वसन्तर्तुर्महातेजा ललिताप्रियकिङ्करः
पुष्पायुधः पुष्पभूषः पुष्पच्छत्रेण शोभितः
प्रसूनमदिरामत्ते प्रसूनशरलालसे
ललिताकिङ्करो नित्यं तस्यास्त्वाज्ञाप्रवर्तकः
हरिचन्दनवाटी तु मुने वर्षर्तुना स्थिता
वज्राट्टहासमुखरो मत्तजीमूतवाहनः
ललितापूजनध्यानजपस्तोत्रपरायणः
नभःश्रीश्च नभस्यश्रीः स्वरस्वारस्वमालिनी
वर्षयन्ती चिबुणिका वारिधारा च शक्तयः
ताभिः समं स वर्षर्तुः शक्तिभिः परमेश्वरीम्
ललिताभक्तदेशांस्तु भूषयन्स्वस्य सम्पदा
वर्तते सततं देवीकिङ्करौ जलदागमः
तां कक्षां रक्षति श्रीमांल्लोकचित्तप्रसादनः
अभ्यर्चयति साम्राज्ञीं श्रीकामेश्वरयोषितम्
सदा प्रसन्नवदनो ललिताप्रियकिङ्करः
पारिजातस्य वाटीं तु रक्षति ज्वलनार्दनः
कदम्बवनवाट्यास्तु रक्षकः शिशिराकृतिः
सा कक्ष्या तेन सर्वत्र शीशिरीकृतभूतला
ताभ्यां सहार्चयत्यंबां ललितां विश्वपावनीम्
प्रथमोद्यानपालस्तु महाकालो मया श्रितः
पालकत्वं श्रुतं त्वत्तश्चक्रदेव्यस्तु न श्रुताः
क्रमेण ब्रूहि भगवन्सर्वज्ञो ऽसि यतो महान्
आकर्णय मुनिश्रेष्ट तत्तच्चक्रस्थदेवताः
षोडशारं सरोजं च दशारद्वितयं पुनः
तन्मध्ये बिन्दुचक्रस्थो वसन्तर्तुर्महाद्युति
उभाभ्यां निजहस्ताभ्यामुभयोस्तनमेककम्
सपुष्पमदिरापूर्मचषकं पिशितं वहन्
अङ्कस्थितं तु विज्ञेयं शक्तयो ऽन्याः समीपगाः
मधुशुक्लप्रथमिका मधुशुक्लद्वितीयिका
मधुशुक्ला पञ्चमी च मधुशुक्ला च षष्ठिका