क्रीडामत्तेन चावाच्यैस्तत्र तेन प्रगल्भितम्
तद्वाक्यं मम नैवाभूद्यतस्तत्राधिको गुणः
एकस्य कारणाज्जाते तत्रान्यस्य स्पृहा भवेत्
कृतवान्मन्त्रिणीनाथे तत्त्वंमत्तनया भव
तथास्त्विति तिरोघत् स च प्रीतो ऽभवन्मुनिः
तापिच्छमञ्जरीमेकां ददौ कर्णावतंसतः
नाम्ना सिद्धिमती गर्भे लघुश्यामामधारयत्
लघुश्यामेति सा प्रोक्त श्यामा यन्मूलकन्दभूः
अङ्गशक्तित्वमापन्नाः सेवन्ते प्रियकप्रियाम्
कथिताः सप्तकक्षाश्च शाला लोहादिनिर्मिताः
तन्नामकीर्तय प्राज्ञ येन मे संशयच्छिदा
महाकालः सर्वलोकभक्षकः श्यामविग्रहः
ब्रह्माण्डचषके पूर्णं पिबन्विश्वरसायनम्
सिंहासने समासीनः कल्पान्ते कलनात्मके
कालमृत्युप्रमुख्यैश्च किङ्करैरपि सेवितः
विश्वं कलयतः कृत्स्नं प्रथमे ऽध्वनि वासिनौ
चतुरावरणोपेतं मध्ये बिन्दुमनोहरम्
अष्टारपङ्कजं चैवं महाकालस्तु मध्यगः
एतास्तिस्रो महादेव्यो महाकालस्य शक्तयः
प्राह्णापराह्णमध्याह्नाः पञ्च कालस्य शक्तयः
दिनमिश्रा तमिस्रा च ज्योत्स्नी चैव तु पक्षिणी
राका चानुमतिश्चैव तथैवामावस्यिका पुनः
एता षोडशमात्रस्थाः शक्तयः षोडश स्मृताः
मुहुर्ताः कुतपाहोरा शुक्लपक्षस्तथैव च
संवत्सरा च परिवत्सरेडावत्सरापि च
इद्वत्सरा ततश्चेन्दुवत्सरावत्सरे ऽपि च
एतास्तु शक्तयो नागपत्रांभोरुहसंस्थिताः
द्वारपालकतां प्राप्तं कालच क्रस्य भास्वतः
दधानाः श्यामलाकाराः सर्वाः कालस्य योषितः
निषेवन्ते महाकालं कालचक्रासनस्थितम्