चतुरस्रस्ताम्रशालः सिंधुयोजनमुन्नतः
कर्पूरगन्धिभिश्चारुरत्नबीजसमन्वितैः
पीतांबराणि दिव्यानि प्रवालान्येव शाखिषु
ईदृशा वहवस्तत्र कल्पवृक्षाः प्रकीर्तिताः
ताम्रशालस्यान्तराले नागशालः प्रकीर्तिताः
तत्र संतानवाटी स्यान्कल्पवापीसमाकृतिः
कल्पवाटीसमाकारा फलपुष्पसमाकुला
पूर्ववद्गोपुराणां च मुकुटानां च कल्पनम्
आरकूटस्यान्तराले सप्तयोजनदूरतः
तयोर्मध्ये मही प्रोक्ता मन्दारद्रुमवाटिका
रौप्यशालस्तु संप्रोक्तः पूर्वोक्तैर्लक्षणैर्युतः
दिव्यामोदसुसंपूर्णा फलपुष्पभरोज्ज्वला
हेमशालः प्रकथितः पूर्ववद्द्वारशोभितः
तत्र दिव्या नीपवृक्षा योजनद्वयमुन्नताः
येभ्यः कादंबरी नाम योगिनी भोगदायिनी
आमोदलोलभृङ्गालीझङ्कारैः पूरितोदराः
कदंबवनवाट्यास्तु विदिक्षुज्वलनादितः
एकैकस्य तु गे७स्य विस्तारः पञ्चयोजनः
निवासनगरी सेयं श्यामायाः परिकीर्तिता
यदत्रैव गृह तस्या बहुयोजनदूरतः
तस्याः श्रीमन्त्रनाथायाः सुरत्वष्ट्रा मयेन च
वर्णयिष्यति को नाम यो द्विजिह्वासहस्रवान्
गायन्त्यस्तत्र खेलन्ति मान्यमातङ्गकन्यकाः
सेवन्ते मन्त्रिणीनाथां सदा मधुमदालसाः
महाप्रभावसंपन्नो जगत्सर्जनलंपटः
मतङ्गमुनिपुत्रेण सुचिरं समुपासिता
उवाच तां पुरो दत्तसान्निध्यां श्यामलांबिकाम्
जाता एवाणिमाद्यास्ताः सर्वाश्चान्या विभूतयः
सर्वतः प्राप्तकालस्य भवत्याश्चरितस्मृतेः
एवं परं प्रार्थये ऽहं तं वरं पूरयांबिके