गोपुराग्रस्य निस्तारो योजनं हि समाश्रितः
मुकुटस्य तु विस्तारः क्रोशमानो घटोद्भव
मुकुटस्यान्तरे क्षोणी क्रोशार्धेन च संमिता
दक्षोत्तरस्तु मुकुटाः पश्चिमद्वारगोपुरे
पश्चिमद्वारवत्पूर्वद्वारे मुकुटकल्पना
अन्तरे कांस्यशालस्य पूर्ववद्गोपुरो ऽन्वितः
कांस्यशालो ऽपि पूर्वादिदिक्षु द्वारसमन्विन्तः
कालायसस्य कांस्यस्य योंऽतर्देशः समन्ततः
उद्भिज्जाद्यं यावदस्ति तत्सर्वं तत्र वर्तते
सदापल्लवशोभाढ्याः सदा सौरभसंकुलाः
शिंशपाश्च शिरीषाश्च देवदारुनमेरवः
एलालवङ्गास्तक्कोलास्तथा कर्पूरशाखिनः
काञ्चनाराश्च लकुचाः पनसा हिङ्गुलास्तथा
गणिकाश्च कुरण्टाश्च बन्धुजीवाश्च दाडिमाः
यूथिकास्तालपर्ण्यश्च तुलस्यश्च सदाफलाः
इक्षवः क्षीरिणश्चैव श्लेष्मान्तकविभीतकाः
भल्लातकाश्च खदिराः शाखोटाश्चन्दनद्रुमाः
उदुंबरार्जुनाश्वत्थाः शमीवृक्षा ध्रुवाद्रुमाः
कपित्थास्तिन्तिणी चैवेत्येवमाध्याः सहस्रशः
नानावृक्षमहोत्सेधा वर्तन्ते वरशाखिनः
चतुरस्रस्ताम्रशालः सिंधुयोजनमुन्नतः
कर्पूरगन्धिभिश्चारुरत्नबीजसमन्वितैः
पीतांबराणि दिव्यानि प्रवालान्येव शाखिषु
ईदृशा वहवस्तत्र कल्पवृक्षाः प्रकीर्तिताः
ताम्रशालस्यान्तराले नागशालः प्रकीर्तिताः
तत्र संतानवाटी स्यान्कल्पवापीसमाकृतिः
कल्पवाटीसमाकारा फलपुष्पसमाकुला
पूर्ववद्गोपुराणां च मुकुटानां च कल्पनम्
आरकूटस्यान्तराले सप्तयोजनदूरतः
तयोर्मध्ये मही प्रोक्ता मन्दारद्रुमवाटिका