प्रोक्तौ तौ श्रीपुरीस्थेषु तेषु क्षेत्रेषु चक्रतुः
कथयाम्यहमाधार्य लोपामुद्रापते शृणु
चतुर्दशजगच्चक्रसंप्रोतनिजविग्रहः
मध्यस्थलेषु जातानि प्रोच्छ्रायस्तेषु कथ्यते
शतयोजनविस्तारं तेषु लोकास्त्रयो मताः
एतेषां गृहविन्यासान्वक्ष्याम्यवसरान्तरे
चतुःशतं योजनानामुच्छ्रितं विस्तृतं तथा
चतुःशतं योजनानां विस्तृत कुम्भसंभव
प्राकारः प्रथमः प्रोक्तः कालायसविनिर्मितः
चतुर्दिक्षु द्वार्युतश्च चतुर्योजनमुच्छ्रितः
शालाग्रस्य तु गव्यूतेर्नद्धवातायनं पृथक्
द्वारेद्वारे कपाटे द्वे गव्यूत्यर्धप्रविस्तरे
उभयोरर्गला चेत्थमर्धक्रोशसमायता
गोपुरस्य तु संस्थानं कथये कुंभसंभव
पार्श्वद्वये योजने द्वे द्वे समादाय निर्मिते
पार्श्वद्वयं योजने द्वे मध्ये शालस्य योजनम्
पार्श्वद्वयेन सार्धेन क्रोशयुग्मेन संयुतम्
एवं प्राकारतस्तत्र गोपुरं रचितं मुने
उपर्युपरि वेष्टस्य ह्रास एव प्रकीर्त्यते
योजनेयोजने द्वारं सकपाटं मनोहरम्
गोपुराग्रस्य निस्तारो योजनं हि समाश्रितः
मुकुटस्य तु विस्तारः क्रोशमानो घटोद्भव
मुकुटस्यान्तरे क्षोणी क्रोशार्धेन च संमिता
दक्षोत्तरस्तु मुकुटाः पश्चिमद्वारगोपुरे
पश्चिमद्वारवत्पूर्वद्वारे मुकुटकल्पना
अन्तरे कांस्यशालस्य पूर्ववद्गोपुरो ऽन्वितः
कांस्यशालो ऽपि पूर्वादिदिक्षु द्वारसमन्विन्तः
कालायसस्य कांस्यस्य योंऽतर्देशः समन्ततः
उद्भिज्जाद्यं यावदस्ति तत्सर्वं तत्र वर्तते
सदापल्लवशोभाढ्याः सदा सौरभसंकुलाः