तारकं मारयामास समस्तैः सह दानवैः
शक्रेण दत्तां स गुहो देवसेनामुपानयत्
आसाद्यरमणं स्कन्दमानन्दं मृशमादधौ
देवकार्यं सुसम्पाद्य जगाम श्रीपुरं पुनः
वर्तते जगतामृद्ध्यै तत्र तां सेवितुं ययौ
केन वानिर्मितं पूर्व तत्सर्वं मे निवदय
त्वमेव सर्वसन्देहपङ्कशोषणभास्करः
महायागानलोत्पन्ना ललिता परमेश्वरी
व्यजेष्ट भण्डनामानमसुरं लोककण्टकम्
नित्योपभोगसर्वार्थं मन्दिरं कर्तुमुत्सुकाः
वर्धकिं विश्वकर्माणं सुराणां शिल्पकोविदम्
आहूय कृतसत्कारानूचिरे ललिताज्ञया
भवन्तौ सर्वशास्त्रज्ञौ घटनामार्गकोविदौ
युवाभ्यां ललितादेव्या नित्यज्ञानमहोदधेः
कर्तव्या श्रीनगर्यो हि नानारत्नैरलङ्कृताः
विश्वत्राणाय सततं निवासं रचयिष्यति
सर्वलोकप्रियं चैतत्तन्नाम्नैव विरच्यताम्
विश्वकर्ममयौ नत्वा व्यभाषेतां तथास्त्विति
केषु क्षेत्रेषु कर्तव्याः श्रीनगर्यो महोदयाः
क्षेत्राणां प्रविभागं तु कल्पयन्तौ यथोचितम्
हेमकूटे हिमगिरौ पञ्चमे गन्धमादने
क्षेत्राणि हि नवैतानि भौमानि विदितान्यथ
लवणो ऽब्धीक्षुसाराब्धिः सुराब्धिर्घृतसागरः
पूर्वोक्ता नव शैलेन्द्राः पश्चात्सप्त च सिन्धवः
सृजतं दिव्यघटनापण्डितौ शिल्पिनौ युवाम्
नामानि नित्यानाम्नैव प्रथितानि न संशयः
सर्वं कलयते देवी कलनाङ्कतया जगत्
अतस्तदीयनाम्ना तु सनामा प्रथिता पुरा
नित्यक्लिन्नापुरीत्यादिनामानि प्रथितान्यलम्
महाशिल्पप्रकारेण पुरीं रचयतां शुभाम्