तन्मयत्वमनुप्राप्तस्ततापातितरां शिवः
अवलोक्य विवाहाय भृशमुद्यमवानभूत्
अथ तां पर्वतसुतामाशुगैरभ्यतापयत्
शुष्यमाणाधरदलो भृशं पाण्डुकपोलभूः
मखीसहस्रैः सिषिचे नित्यं शीतोपचारकैः
न जगाम रुजाशान्ति मन्मथाग्नेर्महीयसः
स्वतनोस्तापनेनासौ पितुः खेदमवर्धयत्
अवलोक्य स शैलेन्द्रो महादुःखमवाप्तवान्
भार्तारं तं समृच्छेति पित्रा सम्प्रेरिताथ सा
वकार पतिलाभाय पार्वती दुष्करं तपः
अर्के निविष्टदृष्टिश्च सुघोरं तप आस्थिता
अङ्गीचकार तां भार्यां वैवाहिकविधानतः
सप्तर्षिद्वारतः पूर्वं प्रार्थितामुदवोढ सः
ओषधीप्रस्थनगरे श्वशुरस्य गृहे ऽवसत्
पार्वतीमानिनायाद्रिनाथस्य प्रीतिमावहत्
विन्ध्याद्रौ हेमशैले च मलये पारियात्रके
अथ तस्यां ससर्जोग्रं वीर्यं सा सोढुमक्षमा
ताश्च गङ्गाजले ऽमुञ्चन्सा चैव शरकानने
गङ्गायाश्चान्तिकं नीतो धूर्जटिर्वृद्धि मागमत्
शिक्षितो निजतातेन सर्वा विद्या अवाप्तवान्
तारकं मारयामास समस्तैः सह दानवैः
शक्रेण दत्तां स गुहो देवसेनामुपानयत्
आसाद्यरमणं स्कन्दमानन्दं मृशमादधौ
देवकार्यं सुसम्पाद्य जगाम श्रीपुरं पुनः
वर्तते जगतामृद्ध्यै तत्र तां सेवितुं ययौ
केन वानिर्मितं पूर्व तत्सर्वं मे निवदय
त्वमेव सर्वसन्देहपङ्कशोषणभास्करः
महायागानलोत्पन्ना ललिता परमेश्वरी
व्यजेष्ट भण्डनामानमसुरं लोककण्टकम्
नित्योपभोगसर्वार्थं मन्दिरं कर्तुमुत्सुकाः