भूयोभूयो गिरिसुतां पूर्वदृष्टामनुस्मरन्
न चन्द्ररेखा नो गङ्गा देहतापच्छिदे ऽभवत्
आहृते पुष्पशयने विलुलोठ मुहुर्मुहुः
पुष्पतल्पान्तरं गत्वा व्यचेष्टत मुहुर्मुहुः
न हिमानीपयसि वा निवृत्तस्तद्वपुर्ज्वरः
भूयः शैलसुतारूपं चित्रपट्टे नखैर्लिखत्
तामालिख्य ह्रिया नम्रां वीक्षमाणां कटाक्षतः
भूयसा स्मरतापेन विव्यथे विषमेक्षणः
तथैव संल्लपन्सार्धमुन्मादेनोपपन्नया
तत्कथासुधया नीतसमस्तरजनीदिनः
तन्मयत्वमनुप्राप्तस्ततापातितरां शिवः
अवलोक्य विवाहाय भृशमुद्यमवानभूत्
अथ तां पर्वतसुतामाशुगैरभ्यतापयत्
शुष्यमाणाधरदलो भृशं पाण्डुकपोलभूः
मखीसहस्रैः सिषिचे नित्यं शीतोपचारकैः
न जगाम रुजाशान्ति मन्मथाग्नेर्महीयसः
स्वतनोस्तापनेनासौ पितुः खेदमवर्धयत्
अवलोक्य स शैलेन्द्रो महादुःखमवाप्तवान्
भार्तारं तं समृच्छेति पित्रा सम्प्रेरिताथ सा
वकार पतिलाभाय पार्वती दुष्करं तपः
अर्के निविष्टदृष्टिश्च सुघोरं तप आस्थिता
अङ्गीचकार तां भार्यां वैवाहिकविधानतः
सप्तर्षिद्वारतः पूर्वं प्रार्थितामुदवोढ सः
ओषधीप्रस्थनगरे श्वशुरस्य गृहे ऽवसत्
पार्वतीमानिनायाद्रिनाथस्य प्रीतिमावहत्
विन्ध्याद्रौ हेमशैले च मलये पारियात्रके
अथ तस्यां ससर्जोग्रं वीर्यं सा सोढुमक्षमा
ताश्च गङ्गाजले ऽमुञ्चन्सा चैव शरकानने
गङ्गायाश्चान्तिकं नीतो धूर्जटिर्वृद्धि मागमत्
शिक्षितो निजतातेन सर्वा विद्या अवाप्तवान्