तानगम्यासु नारीषु पातयित्वा विनाशय
तेषां कामसुखं सर्वं संपादय समीप्सितम्
तथेति शिरसा बिभ्रत्सांजलिर्निर्ययौ ततः
बहवः शोभनाकारा मदना विश्वमोहनाः
पुनः स्थाण्वाश्रमं प्राप चन्द्रमौलेर्जिगीषया
रागेण पीठमर्देन मन्दानिलरयेण च
शृङ्गारवीरसंपन्नो रत्यालिङ्गितविग्रहः
मदनारेरभिमुखं प्राप्य निभय आस्थितः
दूरीचकार वैराग्यं तपस्तत्त्याज दुष्करम्
तामेव पार्वतीं ध्यात्वा भूयोभूयः स्मरातुरः
भूयोभूयो गिरिसुतां पूर्वदृष्टामनुस्मरन्
न चन्द्ररेखा नो गङ्गा देहतापच्छिदे ऽभवत्
आहृते पुष्पशयने विलुलोठ मुहुर्मुहुः
पुष्पतल्पान्तरं गत्वा व्यचेष्टत मुहुर्मुहुः
न हिमानीपयसि वा निवृत्तस्तद्वपुर्ज्वरः
भूयः शैलसुतारूपं चित्रपट्टे नखैर्लिखत्
तामालिख्य ह्रिया नम्रां वीक्षमाणां कटाक्षतः
भूयसा स्मरतापेन विव्यथे विषमेक्षणः
तथैव संल्लपन्सार्धमुन्मादेनोपपन्नया
तत्कथासुधया नीतसमस्तरजनीदिनः
तन्मयत्वमनुप्राप्तस्ततापातितरां शिवः
अवलोक्य विवाहाय भृशमुद्यमवानभूत्
अथ तां पर्वतसुतामाशुगैरभ्यतापयत्
शुष्यमाणाधरदलो भृशं पाण्डुकपोलभूः
मखीसहस्रैः सिषिचे नित्यं शीतोपचारकैः
न जगाम रुजाशान्ति मन्मथाग्नेर्महीयसः
स्वतनोस्तापनेनासौ पितुः खेदमवर्धयत्
अवलोक्य स शैलेन्द्रो महादुःखमवाप्तवान्
भार्तारं तं समृच्छेति पित्रा सम्प्रेरिताथ सा
वकार पतिलाभाय पार्वती दुष्करं तपः