स्थाण्वाश्रमे कॢप्ततया विरक्तः सतीवियोगेन विरस्तभोगः
एवं स्मरं प्रेरितवन्त एव तस्यान्तिकं घोर तपःस्थितस्य
भस्मावशेषो मदनस्ततो ऽभूत्ततो हि भण्डासुर एष जातः
अथास्मदर्थे त्वतनुस्सजातस्त्वं कामसंजीवनमाशुकुर्याः
पुनस्त्वदुत्पादितकामसंगाद्भविष्यति श्रीललिते सनाथा
चिरं कृतात्यन्तमहासपर्या तां पार्वतीं द्राक्परिणेष्यतीशः
तेनैव वीरेण रणे निरस्य स तारको नाम सुरारिराजः
श्रीकण्ठपुत्रैण रणे हतश्चेत्प्राणप्रतिष्ठैव तदा भवेन्नः
उत्पाद्यरत्या विधवात्वदुःखमपाकुरु व्याकुलकुन्तलायाः
नमस्करोति त्रिपुराभिधाने तदत्र कारुण्यकलां विधेहि
तां रतिं दर्शयमासुर्मलिनां शोककर्शितम्
ननाम जगदंबां वै वैधव्यत्यक्तभूषणा
ततः कटाक्षादुत्पन्नः स्मयमानसुखांबुजः
द्विभुजः सर्वभूषाढ्यः पुष्पेषुः पुष्पकार्मुकः
मज्जन्ती निजभर्तारमवरोक्य मुदं गता
मज्जन्ती निजभर्तारमवलोक्य मुदं गता
अलङ्कृत्य यथापूर्वं शीघ्रमानीयतामिह
ब्रह्मर्षिभिर्वसिष्ठाद्यैर्वैवाहि कविधानतः
अप्सरोभिश्च सर्वाभिर्नृत्यगीतादिसंयुतम्
साधुसाध्विति शंसंतस्तुष्टुवुर्ललितांबिकाम्
बभूवुस्तौ महाभक्त्या प्रणम्य ललितेश्वरीम्
व्यज्ञापयदिदं वाक्यं भक्तिनिर्भरमानसः
तत्त्वदीयकटाक्षस्य प्रसादात्पुनरागतम्
इत्युक्ता परमेशानी तमाह मकरध्वजम्
मत्प्रसादाज्जगत्सर्वं मोहयाव्याहताशुग
पर्वतस्य सुतां गौरीं परिणेष्यति सत्वरम्
सर्वेषां देहमाविश्य दास्यन्ति रतिमुत्तमाम्
देहदाहं विधातुं ते न समर्थो भविष्यति
प्रयातो ऽसौ कातरात्मा त्वद्बाणाहतमानसः
अवश्यं क्लीबतैव स्यात्तेषां जन्मनिजन्मनि