सर्वाधिके सर्वगते समस्तसिद्धिप्रदे श्रीललिते नमस्ते
सर्वामराकाङ्क्षितपूरयित्रि सर्वस्य लोकस्य सवित्रि पाहि
बलाहकश्यामकचे वचो ऽब्धे वरप्रदे सुंदरि पाहि विश्वम्
अत्युग्रतेजोज्ज्वलितांबुराशे प्रसेव्यमाने परितो नमस्ते
कथाविशेषीकृतदैत्यसैन्ये कामेशयान्ते कमले नमस्ते
बृहत्कुचंभोजविलोलहारे बृहत्प्रभावे ललिते नमस्ते
कल्पावसानोत्थित कालिरूपे कामप्रदे कल्पलते नमस्ते
सारस्य सारस्य सदैकभूमे समस्तविद्येश्वरि संनतिस्ते
भण्डासुराद्याः समरे प्रचण्डा हता जगत्कण्टकतां प्रयाताः
त्वया समस्तं भुवनं सहर्षं सुजीवितं सुंदरि सभ्यलभ्ये
स्थाण्वाश्रमे कॢप्ततया विरक्तः सतीवियोगेन विरस्तभोगः
एवं स्मरं प्रेरितवन्त एव तस्यान्तिकं घोर तपःस्थितस्य
भस्मावशेषो मदनस्ततो ऽभूत्ततो हि भण्डासुर एष जातः
अथास्मदर्थे त्वतनुस्सजातस्त्वं कामसंजीवनमाशुकुर्याः
पुनस्त्वदुत्पादितकामसंगाद्भविष्यति श्रीललिते सनाथा
चिरं कृतात्यन्तमहासपर्या तां पार्वतीं द्राक्परिणेष्यतीशः
तेनैव वीरेण रणे निरस्य स तारको नाम सुरारिराजः
श्रीकण्ठपुत्रैण रणे हतश्चेत्प्राणप्रतिष्ठैव तदा भवेन्नः
उत्पाद्यरत्या विधवात्वदुःखमपाकुरु व्याकुलकुन्तलायाः
नमस्करोति त्रिपुराभिधाने तदत्र कारुण्यकलां विधेहि
तां रतिं दर्शयमासुर्मलिनां शोककर्शितम्
ननाम जगदंबां वै वैधव्यत्यक्तभूषणा
ततः कटाक्षादुत्पन्नः स्मयमानसुखांबुजः
द्विभुजः सर्वभूषाढ्यः पुष्पेषुः पुष्पकार्मुकः
मज्जन्ती निजभर्तारमवरोक्य मुदं गता
मज्जन्ती निजभर्तारमवलोक्य मुदं गता
अलङ्कृत्य यथापूर्वं शीघ्रमानीयतामिह
ब्रह्मर्षिभिर्वसिष्ठाद्यैर्वैवाहि कविधानतः
अप्सरोभिश्च सर्वाभिर्नृत्यगीतादिसंयुतम्
साधुसाध्विति शंसंतस्तुष्टुवुर्ललितांबिकाम्