क्रोधेन प्रज्वलन्तं च जगद्विप्लवकारिणम्
गतासुमकरोन्माता ललिता परमेश्वरी
सस्त्रीकं च सबालं च सगोष्ठं धनधान्यकम्
भण्डस्य संक्षयेणासीत्त्रैलोक्यं हर्षनर्तितम्
कामेश्वरी त्रिजगतां जननी बभासे विद्योतमानविभवा विज्यश्रियाढ्या
अस्तं गते सवितरि प्रथितप्रभावा श्रीदेवता शिबिरमात्मन आनिनाय
नाशं प्रयान्ति कदनानि दृताष्टसिद्धेर्भुक्तिश्च मुक्तिरपि वर्तत एव हस्ते
पठन्ति पुण्येषु दिनेषु ये नरा भजन्ति ते भाग्यसमृद्धिमुत्तमाम्
विक्रमो ललितादेव्या विशिष्टो वर्णितस्त्वया
श्रुता सा महतीशक्तिर्मन्त्रिणीदण्डनाथयोः
चतुर्थदिनशर्वर्यां विभातायां हयानन
पश्चादाचरितं कर्म निहते भण्डदानवे
मुहुराह्लादयामास लोचनैरमृताप्लुतैः
जहुर्युद्धपरिश्रान्तिं शक्तयः प्रीतिमानसाः
सर्वे ऽपि सेवितुं प्राप्ता ब्रह्मविष्णुपुरोगमाः
आदित्या वसवो रुद्रा मरुतः साध्यदेवताः
प्रह्लादाद्या महादैत्याः सर्वे ऽप्यण्डनिवासिनः
आगत्य तुष्टुवुः प्रीत्या सिंहासनमहेश्वरीम्
नमोनमो भण्डमहासुरघ्ने नमो ऽस्तु कामेश्वरि वामकेशि
चित्राम्बरे चित्रजगत्प्रसूते चित्राख्यनित्ये सुखदे नमस्ते
मुद्रेश्वरीचर्चितराजतन्त्रे मुद्राप्रिये देवि नमोनमस्ते
क्रोडानने पालितसैन्यचक्रे क्रोडीकृताशेषभये नमस्ते
षट्चक्रसंस्थे च षडूर्मियुक्ते षड्भावरूपे ललिते नमस्ते
कामप्रदे कामिनि कामशंभोः काम्ये कलानामधिपे नमस्ते
देदीप्यमाने दयया सनाथे देवाधिदेवप्रमदे नमस्ते
सभ्ये सदेकाल यपादपूज्ये सवित्रि लोकस्य नमोनमस्ते
ब्रह्मामृतस्रोतसि राजहंसिब्रह्मेश्वरि श्रीललिते नमस्ते
नित्ये कलाषोडशकेन नामाकर्षिण्यधीशि प्रमथेन सेव्ये
अभव्यहन्त्र्यक्षरराशिरूपे हतारिवर्गे ललिते नमस्ते
आत्मानमाबिभ्रति विभ्रमाढ्ये शुभ्राश्रये शुभ्रपदे नमस्ते