तस्मादस्त्रात्समुद्भूता बहवो नृपदानवाः
पैण्ड्रको वासुदेवश्च रुक्मी डिंभकहंसकौ
कंसश्चाणूरमल्लश्च मुष्टिकोत्पलशेखरौ
पूतना शकटश्चैव तृणावर्तादयो ऽसुराः
अनेके सह सेनाभिरुत्थिताः शस्त्रपाणयः
श्रीदेवीवामहस्ताब्जानामिकानखसंभवः
वासुदेवो द्वितीयस्तु संकर्षण इति स्मृतः
तानशेषान्दुराचारान्भूमभोरप्रवर्तकान्
नाशयामासुरुर्वीशवेषच्छन्नान्महासुरान्
धर्मविप्लावकं घोरं कल्यस्त्रं सममुञ्चत
किराताः शबरा हूणा यवनाः पापवृत्तयः
ललिताशक्तिसैन्यानि भूयोभूयो व्यमर्दयन्
कनिष्ठिकानखोद्भूतः कल्किर्नाम जनार्दनः
तस्यैव ध्वनिना सर्वे वज्रनिष्पेषबन्धुना
दशावतारनाथास्ते कृत्वेदं कर्म दुष्करम्
ललितांबानियुक्तास्ते वैकुण्ठाय प्रतस्थिरे
महामोहास्त्रमसृजच्छक्तयस्तेन मूर्छिताः
अस्तशैलङ्गभस्तीशो गन्तुमारभतारुणः
सर्वा अक्षौहिणीस्तस्य भस्मसादकरोद्रणे
चत्वारिंशच्चमूनाथान्महाराज्ञी व्यमर्दयत्
क्रोधेन प्रज्वलन्तं च जगद्विप्लवकारिणम्
गतासुमकरोन्माता ललिता परमेश्वरी
सस्त्रीकं च सबालं च सगोष्ठं धनधान्यकम्
भण्डस्य संक्षयेणासीत्त्रैलोक्यं हर्षनर्तितम्
कामेश्वरी त्रिजगतां जननी बभासे विद्योतमानविभवा विज्यश्रियाढ्या
अस्तं गते सवितरि प्रथितप्रभावा श्रीदेवता शिबिरमात्मन आनिनाय
नाशं प्रयान्ति कदनानि दृताष्टसिद्धेर्भुक्तिश्च मुक्तिरपि वर्तत एव हस्ते
पठन्ति पुण्येषु दिनेषु ये नरा भजन्ति ते भाग्यसमृद्धिमुत्तमाम्
विक्रमो ललितादेव्या विशिष्टो वर्णितस्त्वया
श्रुता सा महतीशक्तिर्मन्त्रिणीदण्डनाथयोः