तेषां देशाः कशद्वीपे तत्सनामान एव च
शाल्मलस्येश्वराः सप्त सुतास्ते च वपुष्मतः
वैद्युतो मानसश्चापि सुप्रभः सप्तमस्तथा
जीमूतस्यापि जीमूतो रोहितस्यापि रोहितः
सुप्रभः सुप्रभस्यापि सप्तैते देशपालकाः
सप्त मेधातिथे पुत्राः प्लक्षद्वीपेश्वरा नृपाः
सुखोदयस्तृतीयस्तु चतुर्थो नन्द उच्यते
ध्रुवस्तु सप्तमो ज्ञेयः पुत्रा मेधातिथेः स्मृताः
तस्माच्छान्तभयं चैव शिशिरं च सुखोदयम्
तानि तेषां समानानि सप्त वर्षाणि भागशः
मेधा तिथेस्तु पुत्रैस्तैः प्लक्षद्वीपेश्वरैर्नृबैः
प्लक्षद्वीपादिषु त्वेषु शाकद्वीपान्तिकेषु वै
सुखमायुश्च रूपं च बलं धर्मश्च नित्यशः
प्रक्षद्वीपः परिष्क्रान्तो जंबूद्वीपं निबोधत
प्रियव्रतो ऽभ्य षिञ्चत्तं जंबूद्वीपेश्वरं नृपम्
ज्येष्ठो नाभिरिति ख्यातस्तस्य किंपुरुषो ऽनुजः
रम्यस्तु पञ्चमः पुत्रो हिरण्वान् षष्ठ उच्यते
नवमः केतुमालश्च तेषां देशान्निबोधत
हेमकूटं तु यद्वर्षं ददौ किपुरुषाय तत्
मध्यमं यत्सुमेरोस्तु ददौ स तदिलावृतम्
श्वेतं यदुत्तरं तस्मात्पित्रा दत्तं हिरण्वते
साल्यवन्तं तथा वर्षं भद्राश्वाय न्यवेदयत्
इत्येतानि मयोक्तानि नव वर्षाणि भागशः
यथाक्रमं स धर्मात्मा ततस्तु तपसि स्थितः
प्रियव्रतस्य पुत्रैस्तैः पौतैः स्वायंभुवस्य च
क्रियन्ते प्रलये वृत्ते सप्त सप्तसु पार्थिवैः
यानि किंपुरुषाद्यानि वर्णाण्यष्टौ श्रुतानि तु
विपर्ययो न तेष्वस्ति जरामृत्युभयं न च
न तेष्वस्ति युगावस्था क्षेत्रेष्वष्टासु सर्वशः
नाभिस्त्वज नयत्पुत्रं मेरुदेव्यां महाद्युतिम्