अर्णवास्त्रं महादीरो भण्डदैत्यो रणे ऽसृजत्
आदिकूर्मः समुत्पन्नो योजनायतविस्तरः
शक्तयो हर्षमापन्नाः सागरास्त्रभयं जहुः
हैरण्याक्षं महास्त्रं तु विजहौ दुष्टदानवः
इतस्ततः प्रचलिते शिथिले रणकर्मणि
महावराहः समभूच्छ्वेतः कैलाससंनिभः
कोटिशस्ते हिरण्याक्षा मर्द्यमानाः क्षयं गताः
तस्य भ्रुकुटितो जाता हिरण्याः कोटिसंख्यकाः
अमर्दयच्चक्तिसैन्यं प्रह्लादं चाप्यमर्दयन्
स एव बालकोभूत्वा हिरण्यपरिपीडितः
अथ शक्त्या नन्दरूपं प्रह्लादं परिरक्षितुम्
तस्माद् धूतसटाजालः प्रज्वलल्लोचनत्रयः
नखायुधः कालरुद्ररूपी घोराट्टहासवान्
हिरण्यकशिपून्सर्वान्भण्डभ्रुकुटिसंभवान्
अमुञ्चल्ललिता देवी प्रतिभण्डमहासुरम्
महाराज्ञीदक्षहस्तकनिष्ठाग्रान्महौजसः
बलीन्द्रानस्त्रसंभूतान्बध्नन्तः पाशबन्धनैः
महाकाया महोत्साहास्तदस्त्रं समनाशयन्
तस्मात्सहस्रशोजाताः सहस्रार्जुनकोटयः
प्रज्वलन्भार्गवो रामः सक्रोधः सिंहनादवान्
सहस्रार्जुनसंख्यातान्क्षणादेव व्यनाशयन्
तस्माद्धुङ्कारतो जातश्चन्द्रहासकृपाणवान्
गृहीत्वा शक्तिसैन्यं तदतिदूरममर्दयत्
कोदण्डरामः समभूल्लक्ष्मणेन समन्वितः
नीलोत्पलदलश्यामो धनुर्विस्फारयन्मुहुः
लक्ष्मणो मेघनादं च महावीरमनाशयत्
तस्मादनेकशो जाताः कपयः पिङ्गलोचनाः
व्यनाशयच्छक्तिसैन्यं क्रूरक्रेङ्कारकारिणः
आविर्बभूव तालाङ्कः क्रोधमध्यारुणेक्षणः
द्विविदास्त्रसमुद्भूतान्कपीन्सर्न्वान्व्यनाशयन्