शङ्खं वरुणदत्तश्च शक्तिं दत्तां हविर्भुजा
वज्रिदत्तं च कुलिशं चषकन्धनदार्पितम्
ब्रह्मदत्तां कुण्डिकां च घण्टामैरावतार्पिताम्
विश्वकर्मप्रदत्तानि भूषणानि च बिभ्रती
आयुधानि समस्तानि दीपयन्ति महोदयैः
सिंहवाहनमारुह्य युद्धं नारायणीव्यधात्
चण्डिकासप्तशत्यां तु यथा कर्म पुराकरोत्
तत्कृत्वा दुष्करं कर्म ललितां प्रणनाम सा
महावाग्वा दिनी नाम ससर्जास्त्रं जगत्प्रसूः
ससर्ज तत्र समरे दुर्मदो भण्डदानवः
अर्णवास्त्रं महादीरो भण्डदैत्यो रणे ऽसृजत्
आदिकूर्मः समुत्पन्नो योजनायतविस्तरः
शक्तयो हर्षमापन्नाः सागरास्त्रभयं जहुः
हैरण्याक्षं महास्त्रं तु विजहौ दुष्टदानवः
इतस्ततः प्रचलिते शिथिले रणकर्मणि
महावराहः समभूच्छ्वेतः कैलाससंनिभः
कोटिशस्ते हिरण्याक्षा मर्द्यमानाः क्षयं गताः
तस्य भ्रुकुटितो जाता हिरण्याः कोटिसंख्यकाः
अमर्दयच्चक्तिसैन्यं प्रह्लादं चाप्यमर्दयन्
स एव बालकोभूत्वा हिरण्यपरिपीडितः
अथ शक्त्या नन्दरूपं प्रह्लादं परिरक्षितुम्
तस्माद् धूतसटाजालः प्रज्वलल्लोचनत्रयः
नखायुधः कालरुद्ररूपी घोराट्टहासवान्
हिरण्यकशिपून्सर्वान्भण्डभ्रुकुटिसंभवान्
अमुञ्चल्ललिता देवी प्रतिभण्डमहासुरम्
महाराज्ञीदक्षहस्तकनिष्ठाग्रान्महौजसः
बलीन्द्रानस्त्रसंभूतान्बध्नन्तः पाशबन्धनैः
महाकाया महोत्साहास्तदस्त्रं समनाशयन्
तस्मात्सहस्रशोजाताः सहस्रार्जुनकोटयः
प्रज्वलन्भार्गवो रामः सक्रोधः सिंहनादवान्