चक्रकृत्तकरिग्रामपादकूर्मपरंपरा
विलूनकाण्डैः पतितैः सफेना बलचामरैः
दैत्यवीरेक्षमश्रेणिमुक्तिंसपुटभासुरा
प्रावहच्छोणितनदी सेनयोर्युध्यमानयोः
प्रहरद्वयपर्यन्तं सेनयोरुभयोरपि
अस्त्रप्रत्यस्त्रसंक्षोभैस्तुमुलीकृतदिक्तटः
विमुक्तैर्विशिशैर्भीमैराहवे प्राणहारिभिः
शृणु सर्वं प्रवक्ष्यामि कुम्भसंभव सङ्गरे
दैत्याङ्गसंगे संप्राप्ताः कोटिसंख्याः शिलीमुखाः
मर्माभिनत्प्रचण्डस्य महाराज्ञी महेषुभिः
ववष शरजालेन महता ललितेश्वरीम्
महातरणिबाणेन तन्नुनोद महेश्वरी
गायत्र्यस्त्रं तस्य नुत्यै ससर्ज जगदंबिका
चाक्षुष्मतमहास्त्रेण शमयायास तत्प्रसूः
विश्वावसोरथास्त्रेण तस्य दर्पमपाकरोत्
महामृत्युञ्जयास्त्रेण नाशयामास तद्बलम्
धारणास्त्रेण चक्रेशी तद्बलं समनाशयत्
अभयङ्करमैन्द्रास्त्रं मुमुचे जगदंबिका
राजयक्ष्मादयो रोगास्ततो ऽभूवन्सहस्रशः
नामत्रयमहामन्त्रमहास्त्रं सा मुमोच ह
हुङ्कारमात्रतो दग्ध्वारोगांस्ताननयन्मुदम्
विधातुं त्रिषु लोकेषु नियुक्ताः स्वपदं ययुः
कालसंकर्षणीरूपमस्त्रं राज्ञी व्यमुञ्चत
ततः सहस्रशो जाता महाकाया महाबलाः
धूम्रलोचनदैत्यश्च चण्डमुण्डादयो ऽसुराः
शुम्भश्चैव निशुम्भश्च कालकेया महाबलाः
ते सर्वे दानवश्रेष्ठाः कठोरैः शस्त्रमण्डलैः
हाहेति क्रन्दमानाश्चशक्तयो दैत्यमर्दिताः
अथ देवी भृशं क्रुद्धा रुषाट्टहासमातनोत्
समस्तदेवतेजोभिर्निर्मिता विश्वरूपिणी