शक्तयो भयविभ्रष्टान्यायुधानि पुनर्दधुः
दैत्येन्द्रसिंहनादेन चमूनाथधनुःस्वनैः
निश्चित्य ललिता देवी स्वयं योद्धुं प्रचक्रमे
भण्डदैत्येन दुष्टेन स्वयमुद्योगमास्थिता
चतुर्वेदमहाचक्रपुरुषार्थमहाभयः
नवपर्वस्थदेवीभिराकृष्टगुरुधन्विभिः
पर्वस्थानेषु सर्वेषु पालितः सर्वतो दिशम्
महाराज्ञीचक्रराजो रथेन्द्रः प्रचलन्बभौ
गेयचक्रं तु बालाग्रे किरिचक्रं तु बृष्ठतः
नृसिंहोष्ट्रनरव्यालमृगपक्षिहयास्तथा
एतादृशश्च तिर्यञ्चो ऽप्यन्ये वाहनतां गताः
वह्निप्राकारचक्रस्य न पर्याप्तं चमूपतेः
विततान समस्तानां सैन्यानां निर्गमैषिणी
निर्जगामा ग्निपुरता वरद्वारात्प्रतापिनी
महामुक्तातपत्रं तद्दिवि दीप्तमदृश्यत
अभवंल्ललितासैन्ये उत्पातास्तु द्विषां बले
प्रसर्पद्विशिखैः स्तोमबद्धान्धतमसच्छटम्
ह्नीयमाणशिरश्छन्नदैत्यश्वेतातपत्रकम्
दृश्यते केवलं दृष्टं रजोमात्रं च सूर्च्छितम्
दैत्यकेशसहस्रैस्तु शैवालाङ्कुरकोमला
चक्रकृत्तकरिग्रामपादकूर्मपरंपरा
विलूनकाण्डैः पतितैः सफेना बलचामरैः
दैत्यवीरेक्षमश्रेणिमुक्तिंसपुटभासुरा
प्रावहच्छोणितनदी सेनयोर्युध्यमानयोः
प्रहरद्वयपर्यन्तं सेनयोरुभयोरपि
अस्त्रप्रत्यस्त्रसंक्षोभैस्तुमुलीकृतदिक्तटः
विमुक्तैर्विशिशैर्भीमैराहवे प्राणहारिभिः
शृणु सर्वं प्रवक्ष्यामि कुम्भसंभव सङ्गरे
दैत्याङ्गसंगे संप्राप्ताः कोटिसंख्याः शिलीमुखाः
मर्माभिनत्प्रचण्डस्य महाराज्ञी महेषुभिः