क्रोधहुङ्कारमातन्वन्गर्जन्नुत्पातमेघवत्
भ्रातरो मम पुत्राश्च सेनानाथाः सहस्रशः
भ्रातृपुत्रमहाशोकवह्निं निर्वापयाम्यहम्
इत्युक्त्वा कठिनं वर्म वज्रपातसहं महत्
उद्दाममौर्विनिःश्वासकठोरं भ्रामयन्धनुः
तालजङ्घादिकैः सार्द्धंपूर्वद्वारे निवेशिते
पञ्चत्रिंशच्चमूनाथैः कुटिलाक्षपुरःसरैः
मिलितेन च भण्डेन चत्वारिंशच्चमूवराः
द्विसहस्राक्षौहिणीनां पञ्चाशीतिः परार्धिका
भण्डासुरे विनिर्याते सर्वसैनिकसंकुले
सहस्रयुग्यसिंहाढ्यमारुरोह रणोद्धतः
घातको नाम वै खड्गश्चन्द्रहाससमाकृतिः
वोढुं तासां भरं भूमिरक्षमेव दिवं ययौ
केषाञ्चित्स्कन्धमारूढाः केचिच्चेलुर्महारथाः
दुःखदुखेन ते चेलुरन्योन्याश्लेषपीडिताः
केचित्पादेन नागानां मर्दिता न्यपतन्भुवि
वज्रनिष्पेषसदृशो मेघनादो व्यधीयत
भण्डदैत्यमुखोत्थेन विदीर्णमभवज्जगत्
उडूनि न्यपतन्व्योम्नो भूमिर्देलायिताभवत्
शक्तीनां कटकं चासीदकाण्डत्रासविह्वलम्
शक्तयो भयविभ्रष्टान्यायुधानि पुनर्दधुः
दैत्येन्द्रसिंहनादेन चमूनाथधनुःस्वनैः
निश्चित्य ललिता देवी स्वयं योद्धुं प्रचक्रमे
भण्डदैत्येन दुष्टेन स्वयमुद्योगमास्थिता
चतुर्वेदमहाचक्रपुरुषार्थमहाभयः
नवपर्वस्थदेवीभिराकृष्टगुरुधन्विभिः
पर्वस्थानेषु सर्वेषु पालितः सर्वतो दिशम्
महाराज्ञीचक्रराजो रथेन्द्रः प्रचलन्बभौ
गेयचक्रं तु बालाग्रे किरिचक्रं तु बृष्ठतः
नृसिंहोष्ट्रनरव्यालमृगपक्षिहयास्तथा