मोदकस्यापि मोदाकं षष्ठं वर्षं प्रकीर्त्तितम्
तेषां तु नामभिस्तानि सप्त वर्षाणि तत्र वै
कुशलो मनोनुगस्छोष्णः पावनश्चान्धकारकः
तेषां स्वनामभिर्देशाः क्रैञ्चद्वीपाश्रयाः शुभाः
देशो मनोनुगस्यापि मानोनुगे इते स्मृतः
अन्धकारस्य देशस्तु आन्धकारः प्रकीर्त्तितः
एते जनपदाः सप्त क्रैञ्चद्वीपे तु भास्वराः
उद्भिज्जो वेणुमांश्चैव वैरथो लवणो धृतिः
उद्भिज्जं प्रथमं वर्षं द्वितीयं वेणुमण्डलम्
पञ्चमं धृतिमद्वर्षं षष्ठं वर्षं प्रभाकरम्
तेषां देशाः कशद्वीपे तत्सनामान एव च
शाल्मलस्येश्वराः सप्त सुतास्ते च वपुष्मतः
वैद्युतो मानसश्चापि सुप्रभः सप्तमस्तथा
जीमूतस्यापि जीमूतो रोहितस्यापि रोहितः
सुप्रभः सुप्रभस्यापि सप्तैते देशपालकाः
सप्त मेधातिथे पुत्राः प्लक्षद्वीपेश्वरा नृपाः
सुखोदयस्तृतीयस्तु चतुर्थो नन्द उच्यते
ध्रुवस्तु सप्तमो ज्ञेयः पुत्रा मेधातिथेः स्मृताः
तस्माच्छान्तभयं चैव शिशिरं च सुखोदयम्
तानि तेषां समानानि सप्त वर्षाणि भागशः
मेधा तिथेस्तु पुत्रैस्तैः प्लक्षद्वीपेश्वरैर्नृबैः
प्लक्षद्वीपादिषु त्वेषु शाकद्वीपान्तिकेषु वै
सुखमायुश्च रूपं च बलं धर्मश्च नित्यशः
प्रक्षद्वीपः परिष्क्रान्तो जंबूद्वीपं निबोधत
प्रियव्रतो ऽभ्य षिञ्चत्तं जंबूद्वीपेश्वरं नृपम्
ज्येष्ठो नाभिरिति ख्यातस्तस्य किंपुरुषो ऽनुजः
रम्यस्तु पञ्चमः पुत्रो हिरण्वान् षष्ठ उच्यते
नवमः केतुमालश्च तेषां देशान्निबोधत
हेमकूटं तु यद्वर्षं ददौ किपुरुषाय तत्
मध्यमं यत्सुमेरोस्तु ददौ स तदिलावृतम्