अस्त्रेण ब्रह्मशिरसा ज्वलत्पावकरोचिषा
विषङ्गं च महादैत्यं दण्डनाथा मदोद्धता
उद्यम्य बाहुना युद्धं चकाराशेषभीषणम्
चण्डाट्टहासमुखरौ परिभ्रमणकारिणौ
अन्योन्यदण्डहननैर्मोहयन्तौ मुहुर्मुहुः
अयुध्येतां दुराधर्षौं दण्डिनीदैत्यशेखरौ
संक्रुद्धा हन्तुमारेभे विषङ्गं दण्डनायिका
कठोरं ताडनं चक्रे मुसलेनाथ पोत्रिणी
चूर्णितेन शताङ्गेन समं भूतलमाश्रयत्
तत्रैव तं निशा शेषं निन्यतुः शिबिरं प्रति
विषङ्गस्य वधो युद्धे वर्णितो दण्डनाथया
सोदरस्यापदं दृष्ट्वा भण्डः किमकरोच्छुचा
सहायाः के ऽभवंस्तस्य हतभ्रातृतनूभुवः
ललिताचरितं पुण्यमणिमादिगुमप्रदम्
सिद्धिदं सर्वपापघ्नं कीर्तिदं पञ्चपर्वसु
शोकेन महताविष्टो भण्डः प्रविललाप सः
न लेभे किञ्चिदाश्वासं भ्रातृव्यसनकर्शितः
आश्वास्यामानः शोकेन युक्तः कोपमवाप सः
अङ्गारपाटलाक्षश्च निःश्वसन्कृष्णसर्पवत्
क्षिप्रं मुहुर्मुहुः स्पृष्ट्वा धुन्वानः करवालिकाम्
क्रोधहुङ्कारमातन्वन्गर्जन्नुत्पातमेघवत्
भ्रातरो मम पुत्राश्च सेनानाथाः सहस्रशः
भ्रातृपुत्रमहाशोकवह्निं निर्वापयाम्यहम्
इत्युक्त्वा कठिनं वर्म वज्रपातसहं महत्
उद्दाममौर्विनिःश्वासकठोरं भ्रामयन्धनुः
तालजङ्घादिकैः सार्द्धंपूर्वद्वारे निवेशिते
पञ्चत्रिंशच्चमूनाथैः कुटिलाक्षपुरःसरैः
मिलितेन च भण्डेन चत्वारिंशच्चमूवराः
द्विसहस्राक्षौहिणीनां पञ्चाशीतिः परार्धिका
भण्डासुरे विनिर्याते सर्वसैनिकसंकुले