रणभ्रमहरा शीता लघ्व्यस्तद्वत्कवोष्ठकाः
नानाविधाः सुराधारा ववर्ष मदिरार्णवः
ऐरावतकर प्रख्यां सुराधारां मुदा पपौ
शक्तयः प्रपपुः सीधु मुदा मीलितलोचनाः
आगतस्तर्पयित्वा तु दिव्यरूपं समास्थितः
स्निग्धगंभीरघोषेण वाक्यं चेदमुवाच ताम्
मया संतर्पिता मुग्धरूपा शक्तिवरूथिनी
नृत्यन्तीनां पुरः काश्चित्करतालं वितन्वते
पतन्त्यन्योन्यमङ्गेषु काश्चिदानन्दमन्थराः
काश्चिदुत्थाय संनद्धा घूर्णयन्ति निरायुधाः
अवलोक्य भृशं तुष्टा दण्डिनी तमुवाच ह
देवकार्यमिद किञ्च निर्विघ्नितमिदं कृतम्
सोमपानवदत्यन्तमुपयोज्यो भविष्यसि
यागेषु मन्त्रपूतेन पीतेन भवता जनाः
दत्तात्रेयो विधिर्विष्णुस्त्वां पास्यन्ति महाजनाः
यागे समर्चितस्त्वं तु सर्वसिद्धिं प्रदास्यसि
इत्थं वरप्रदानेन तोषयित्वा सुरांबुधिम्
पुनः प्रववृते युद्धं शक्तीनां दानवैः सह
शक्तयो दैत्यचक्रेषु न्यपतन्नेकहेलया
मदरागेण चक्षूंषि दैत्यरक्तेन शस्त्रिका
यथा मृत्युरवित्रस्तः प्रजाः संहरते स्वयम्
स्खलदक्षरसंदर्भवीरभाषा रणोद्धताः
युवराजस्य सैन्यानि शक्त्यः समानाशयन्
अक्षौहिणीसार्द्धशत नाशयामास मन्त्रिणी
अक्षौहिणीसार्धशतं नित्युरन्तकमन्दिरम्
उलूकजितमुन्मथ्य परलोकातिथिं व्यधात्
परुषेण मुखान्यन्यान्यवरुद्धाव्यदारयन्
विशुक्रं योधयामास श्यामला कोपशालिनी
महता रणकृत्येन योधयामास मन्त्रिणी
क्रमशः खण्डयन्ती सा केतनं रथसारथिम्