प्रपिबन्त्यः पिपासार्तैर्मुखैः शक्तय उत्थिताः
तथा सैन्यस्य परितो महाप्राकारमण्डलम्
चकार विस्मयकरी कदंबवनवासिनी
अथ ताः शक्तयो भूरि पिबन्ति स्म रणान्तरे
यस्या यस्या मनःप्रीती रुचिः स्वादो यथायथा
संततं मध्यधाराभिः प्रववर्ष सुरांबुधिः
हैताली लाङ्गलेया च तालजातास्तथा सुराः
सुस्वादुसौरभाद्याश्च शुभगन्धसुखप्रदाः
कटुकाश्च कषायाश्च मधुरास्तिक्ततास्पृशः
ईषदम्लाश्च कट्वम्ला मधुराम्लास्तथा पराः
रणभ्रमहरा शीता लघ्व्यस्तद्वत्कवोष्ठकाः
नानाविधाः सुराधारा ववर्ष मदिरार्णवः
ऐरावतकर प्रख्यां सुराधारां मुदा पपौ
शक्तयः प्रपपुः सीधु मुदा मीलितलोचनाः
आगतस्तर्पयित्वा तु दिव्यरूपं समास्थितः
स्निग्धगंभीरघोषेण वाक्यं चेदमुवाच ताम्
मया संतर्पिता मुग्धरूपा शक्तिवरूथिनी
नृत्यन्तीनां पुरः काश्चित्करतालं वितन्वते
पतन्त्यन्योन्यमङ्गेषु काश्चिदानन्दमन्थराः
काश्चिदुत्थाय संनद्धा घूर्णयन्ति निरायुधाः
अवलोक्य भृशं तुष्टा दण्डिनी तमुवाच ह
देवकार्यमिद किञ्च निर्विघ्नितमिदं कृतम्
सोमपानवदत्यन्तमुपयोज्यो भविष्यसि
यागेषु मन्त्रपूतेन पीतेन भवता जनाः
दत्तात्रेयो विधिर्विष्णुस्त्वां पास्यन्ति महाजनाः
यागे समर्चितस्त्वं तु सर्वसिद्धिं प्रदास्यसि
इत्थं वरप्रदानेन तोषयित्वा सुरांबुधिम्
पुनः प्रववृते युद्धं शक्तीनां दानवैः सह
शक्तयो दैत्यचक्रेषु न्यपतन्नेकहेलया
मदरागेण चक्षूंषि दैत्यरक्तेन शस्त्रिका