विशुक्रमुक्ततर्षास्त्रव्याकुलाः शक्तयो ऽवन्
रूक्षयन्कर्णकुहरमङ्गदौर्वल्यमाहवन्
आविर्बभूव शक्तीनामतितीव्रस्तृषाज्वरः
मन्त्रिणी सह पोत्रिण्या भृशं चिन्तामवाप ह
सखि पोत्रिणि दुष्टस्य तर्षास्त्रमिदमागतम्
शक्तीनां मण्डलेनात्र समरे समुपेक्षितम्
विशुष्कतालुमूलत्वा द्वक्तुमप्यालि न क्षमाः
कृता चापकृतिर्दैत्यैरुपायः प्रविचिन्त्यताम्
एकापि शक्तिर्नैवास्ति या तर्षेण न पीडिता
रन्ध्रप्रहारिणो हन्त बाणैर्निघ्नन्ति दानवाः
त्वदीयरथपर्वस्थो यो ऽस्ति शीतमहार्णवः
नाल्पैः पानीयपानाद्यैरेतासां तर्षसंक्षयः
सर्वतर्षप्रशमनं महाबलविवर्धनम्
आजुहाव सुधासिंधुमाज्ञां चक्रेश्वरी रणे
स मदालसरक्ताक्षो हेमाभः स्रग्विभूषितः
प्रणम्य दण्डनाथां तां तदाज्ञापरिपारकः
क्वचित्तापिच्छवच्छ्यामं क्वचिच्च धवलद्युतिम्
ववर्ष सिंधुराजो ऽयं वायुना बहुलीकृतः
निषिच्यमानो मध्ये ऽब्धिः शक्तिसैन्ये पपात ह
दुर्बलः प्रबलश्च स्यात्तद्ववर्ष सुरांबुधिः
प्रपिबन्त्यः पिपासार्तैर्मुखैः शक्तय उत्थिताः
तथा सैन्यस्य परितो महाप्राकारमण्डलम्
चकार विस्मयकरी कदंबवनवासिनी
अथ ताः शक्तयो भूरि पिबन्ति स्म रणान्तरे
यस्या यस्या मनःप्रीती रुचिः स्वादो यथायथा
संततं मध्यधाराभिः प्रववर्ष सुरांबुधिः
हैताली लाङ्गलेया च तालजातास्तथा सुराः
सुस्वादुसौरभाद्याश्च शुभगन्धसुखप्रदाः
कटुकाश्च कषायाश्च मधुरास्तिक्ततास्पृशः
ईषदम्लाश्च कट्वम्ला मधुराम्लास्तथा पराः