धृतातपत्रवलये चामराभ्यां च वीजिते
निर्जगमतू रणं कर्तुमुभाभ्यां ललिताज्ञया
शताक्षौहिणिकां सेनां वर्जयित्वास्त्रभीषणम्
पुरतः प्राचलद्दण्डनाथा रथनिषेदुषी
मुसलं चान्यहस्तेन भ्रामयन्ती मुहुर्मुहुः
अस्या अनुप्रचलिता गेयचक्ररथस्थिता
वेणीकृतकचन्यस्तविलसच्चन्द्रपल्लवा
पाणिना पद्मरम्येण मणिकङ्कणचारुणा
जय वर्धस्ववर्धस्वेत्यतिहर्षसमाकुले
गेयचक्ररथेन्द्रस्य चक्रनेमिविघट्टनैः
गीतिबन्धेनामरीभिर्बह्वीभिर्गीतवैभवा
कर्षती कल्पविश्लेषनिर्मर्यादाब्धिसंनिभम्
काश्चिद्दाडिमसंकाशाः काश्चिज्जीमूतरोचिषः
काचाद्रिकाम्बराः काश्चित्पराः श्यामलकोमलाः
विरुद्धैः पञ्चभिर्बाणैर्मिश्रितैः शतकोटिभिः
असंख्याः शक्तयश्चेलुर्दण्डिन्यास्सैनिके तथा
यथा भूषणवेषादि यथा प्रभावलक्षणम्
यथा दैत्यौघसंहारो यथा सर्वैश्च पूजिता
महाराज्ञीवितीर्णं तदाज्ञामुद्राङ्गुलीयकम्
तद्भारभङ्गुरा भूमिर्देलालीलामलंबत
उद्धूतधूलिजंबालीभूतसप्तार्णवीजलम्
आधोरणैर्हस्तिपकाः खड्गैः पद्गाश्च सङ्गताः
विशुक्रेण समं श्यामा विकृष्टमणिकार्मुका
सम्पदीशाच जग्राह पुरुषेण युयुत्सया
कुन्तिषेणेन समरं महामाया तदाकरोत्
लघुश्यामा चकारोच्चैः कुशूरेण समं रणम्
वाग्वादिनी तु जघटे द्रुघणेन समं रणे
महान्तं समरे चक्रुरन्योन्यं क्रोधमूर्छिताः
वर्धमानां शक्तिचमूं हीयमानां निजां चमूम्
शक्तिसैन्ये समस्ते ऽपि तृषास्त्रं प्रमुमोच ह