युवराजः प्रववृधे प्रतापेन महीयसा
भण्डस्य च भगिन्यान्तु धूमिन्यां जातयोनयः
विक्रमेण वलन्तस्ते सेनानाथाः प्रतस्थिरे
द्वयोर्मातुलयोः प्रीतिं भागिनेया वितेनिरे
आकृष्टगुरुधन्वानो विशुक्रमनुवव्रजुः
आरूढवारणः प्राप विशुक्रो युद्धमेदिनीम्
विशुक्रः पटु दध्वान सिंहनादं भयङ्करम्
अग्निप्राकारवलयान्निर्जगमुर्बद्धपङ्कयः
रक्ताम्वुजावृतमिव व्योमचक्रं रणोन्मुखाः
निशम्य युगपद्योद्धं मन्त्रिणीदण्डनायके
धृतातपत्रवलये चामराभ्यां च वीजिते
निर्जगमतू रणं कर्तुमुभाभ्यां ललिताज्ञया
शताक्षौहिणिकां सेनां वर्जयित्वास्त्रभीषणम्
पुरतः प्राचलद्दण्डनाथा रथनिषेदुषी
मुसलं चान्यहस्तेन भ्रामयन्ती मुहुर्मुहुः
अस्या अनुप्रचलिता गेयचक्ररथस्थिता
वेणीकृतकचन्यस्तविलसच्चन्द्रपल्लवा
पाणिना पद्मरम्येण मणिकङ्कणचारुणा
जय वर्धस्ववर्धस्वेत्यतिहर्षसमाकुले
गेयचक्ररथेन्द्रस्य चक्रनेमिविघट्टनैः
गीतिबन्धेनामरीभिर्बह्वीभिर्गीतवैभवा
कर्षती कल्पविश्लेषनिर्मर्यादाब्धिसंनिभम्
काश्चिद्दाडिमसंकाशाः काश्चिज्जीमूतरोचिषः
काचाद्रिकाम्बराः काश्चित्पराः श्यामलकोमलाः
विरुद्धैः पञ्चभिर्बाणैर्मिश्रितैः शतकोटिभिः
असंख्याः शक्तयश्चेलुर्दण्डिन्यास्सैनिके तथा
यथा भूषणवेषादि यथा प्रभावलक्षणम्
यथा दैत्यौघसंहारो यथा सर्वैश्च पूजिता
महाराज्ञीवितीर्णं तदाज्ञामुद्राङ्गुलीयकम्
तद्भारभङ्गुरा भूमिर्देलालीलामलंबत