सप्ताक्षौहिणियुक्तेन युयुधे स गणेश्वरः
वर्धमानं च तद्वीर्यं विशुक्रः प्रपलायितः
सप्ताक्षौहिणिकायुक्तं गजासुरममर्दयत्
ललितान्तिकमापेदे महागमपतिर्मृधात्
ललिता चाति मुदिता बभूवास्य पराक्रमैः
सर्वदैवतपूजायाः पूर्वपूज्यत्वमुत्तमम्
सेनानां कदनं श्रुत्वा सन्तप्तो बहुचिन्तया
प्रेषयामास युद्धाय भण्डदैत्यः सहोदरौ
विषङ्गश्च विशुक्रश्च महोद्यम मवापनुः
विशुक्रमनुवव्राज सेना त्रैलोक्यकम्पिनी
युवराजः प्रववृधे प्रतापेन महीयसा
भण्डस्य च भगिन्यान्तु धूमिन्यां जातयोनयः
विक्रमेण वलन्तस्ते सेनानाथाः प्रतस्थिरे
द्वयोर्मातुलयोः प्रीतिं भागिनेया वितेनिरे
आकृष्टगुरुधन्वानो विशुक्रमनुवव्रजुः
आरूढवारणः प्राप विशुक्रो युद्धमेदिनीम्
विशुक्रः पटु दध्वान सिंहनादं भयङ्करम्
अग्निप्राकारवलयान्निर्जगमुर्बद्धपङ्कयः
रक्ताम्वुजावृतमिव व्योमचक्रं रणोन्मुखाः
निशम्य युगपद्योद्धं मन्त्रिणीदण्डनायके
धृतातपत्रवलये चामराभ्यां च वीजिते
निर्जगमतू रणं कर्तुमुभाभ्यां ललिताज्ञया
शताक्षौहिणिकां सेनां वर्जयित्वास्त्रभीषणम्
पुरतः प्राचलद्दण्डनाथा रथनिषेदुषी
मुसलं चान्यहस्तेन भ्रामयन्ती मुहुर्मुहुः
अस्या अनुप्रचलिता गेयचक्ररथस्थिता
वेणीकृतकचन्यस्तविलसच्चन्द्रपल्लवा
पाणिना पद्मरम्येण मणिकङ्कणचारुणा
जय वर्धस्ववर्धस्वेत्यतिहर्षसमाकुले
गेयचक्ररथेन्द्रस्य चक्रनेमिविघट्टनैः