हेषया च हयश्रेण्या रथचक्रस्वनैरपि
धनुषां गुणनिस्स्वानैश्चक्रचीत्करणैरपि
अट्टहासैर्महेन्द्राणां सिंहनादैश्चभूरिशः
त्रिंशदक्षौहिणी सेना विशुक्रस्य दुरात्मनः
दन्तैर्मर्म विभिन्दन्तो विष्टंयतश्च शुण्डया
नासाश्वासैश्च परुषैर्विक्षिपन्तः पताकिनीम्
पिंषन्तश्च पदाघातैः पीनैर्घ्नन्तस्तथोदरैः
शङ्खस्वनेन महता त्रासयन्तो वरूथिनीम्
धूलीशेषं समस्तं तत्सैन्यं चक्रुर्महोद्यताः
प्रेषयामास देवस्य गजासुर मसौ पुनः
सप्ताक्षौहिणियुक्तेन युयुधे स गणेश्वरः
वर्धमानं च तद्वीर्यं विशुक्रः प्रपलायितः
सप्ताक्षौहिणिकायुक्तं गजासुरममर्दयत्
ललितान्तिकमापेदे महागमपतिर्मृधात्
ललिता चाति मुदिता बभूवास्य पराक्रमैः
सर्वदैवतपूजायाः पूर्वपूज्यत्वमुत्तमम्
सेनानां कदनं श्रुत्वा सन्तप्तो बहुचिन्तया
प्रेषयामास युद्धाय भण्डदैत्यः सहोदरौ
विषङ्गश्च विशुक्रश्च महोद्यम मवापनुः
विशुक्रमनुवव्राज सेना त्रैलोक्यकम्पिनी
युवराजः प्रववृधे प्रतापेन महीयसा
भण्डस्य च भगिन्यान्तु धूमिन्यां जातयोनयः
विक्रमेण वलन्तस्ते सेनानाथाः प्रतस्थिरे
द्वयोर्मातुलयोः प्रीतिं भागिनेया वितेनिरे
आकृष्टगुरुधन्वानो विशुक्रमनुवव्रजुः
आरूढवारणः प्राप विशुक्रो युद्धमेदिनीम्
विशुक्रः पटु दध्वान सिंहनादं भयङ्करम्
अग्निप्राकारवलयान्निर्जगमुर्बद्धपङ्कयः
रक्ताम्वुजावृतमिव व्योमचक्रं रणोन्मुखाः
निशम्य युगपद्योद्धं मन्त्रिणीदण्डनायके