कस्य वाथ विकारेण सैनिका निर्गतोद्यमाः
औदासीन्यं वितन्वन्ति शक्तयो निस्पृहा इमाः
चक्रस्यन्दनमारूढे महाराज्ञीं समूचतुः
न शृण्वन्ति महाराज्ञि तवाज्ञां विश्वपालिताम्
निद्रातन्द्रामुकुलिता दुर्वाक्यानि वितन्वते
युद्धं च कीदृशमिति क्षेपं भूरि वितन्वते
उद्दण्डभेरीनिस्वानैर्विभिन्दन्निव रोदसी
इत्युक्त्वा सह दण्डिन्या मन्त्रिणी प्रणतिं व्यधात्
दत्तदृष्टडिः समहसदतिरक्तरदावलिः
कटक्रोडगलद्दानः कश्चिदेव व्यजृंभत
बीजपूरगदामिक्षुचापं शूलं सुदर्शनम्
रत्नकुंभं च दशभिः स्वकैर्हस्तैः समुद्वहन्
सिद्धिलक्ष्मीसमाश्लिष्टः प्रणनाम महेश्वरीम्
जयविघ्नमहायन्त्रंभेत्तुं वेगाद्विनिर्ययौ
निभृतं कुत्रचिल्लग्नं जयविघ्नं व्यलोकयत्
क्षणाच्चूर्मीकरोति स्म जयविघ्नमहाशिलाम्
परागशेषतां नीत्वा तद्यन्त्रं प्रक्षिपद्दिवि
उद्यताः समरं कर्तुं शक्तयः शस्त्रपाणयः
जययन्त्रं हि तत्सृष्टं तथा रात्रौ व्यनाशयत्
ससर्जय बहूनात्मरूपान्दन्तावलाननान्
चञ्चरीककुलैरग्रे गीयमानमहोदयाः
सदा रत्नाकरानेकहेलया पातुमुद्यताः
आमोदश्च प्रमोदश्च मुमुखो दुर्मुखस्तथा
ते सप्तकोटिसंख्यानां हेरंबाणामधीश्वराः
अग्निप्राकारवलयाद्विनिर्गत्य गजाननाः
पुनः प्रचण्डफूत्कारबधिरीकृतविष्टपाः
अच्छिदन्निशितैर्बाणैर्गणनाथः स दानवान्
युद्धमुद्धतहुङ्कारभिन्नकार्मुकनिःस्वनम्
विशुक्रो युधि बिभ्राणः समयुध्यत तेन सः
दैत्यसप्तिखुरक्रीडत्कुद्दालीकूटनिस्वनैः