सार्थं कर्त्तुमिवोद्युक्तं सवर्णस्यासिदुर्धिया
अदृश्यवपुरापेदे ललिताकटकं खलः
शतयोजनविस्तारामालोकयत् दुर्मतिः
दक्षिणं द्वारमासाद्य निदध्यौ क्षणमुद्धतः
आरूढयानाः सनद्धवर्माणो द्वारदेशतः
सर्वदा द्वाररक्षार्थं निर्दिष्टा दण्डनाथया
शालस्य बहिरेवासौ स्थित्वा यन्त्रं समातनोत्
शिलापट्टे सुमहति प्रालिखद्यन्त्रमुत्तमम्
अष्टभिर्दैवतैश्चैव युक्तं यन्त्रं समालिखत्
क्लीबा च निरहङ्कारा चेत्यष्टौ देवताः स्मृताः
नियोज्य लिखितं यन्त्रं मायावी सममन्त्रयत्
तद्यन्त्रं चारिकटके प्राक्षिपत्समरे ऽसुरः
क्षिप्तमुल्लङ्घ्य च रणे पपात कटकान्तरे
विमुक्तशस्त्रसंन्यासमास्थिता दीनमानसाः
जयसिद्धफलं किं वा प्राणिहिंसा च पापदा
वृथा कलकलं कृत्वा न फलं युद्धकर्मणा
का वा सा मन्त्रिणी श्यामा भृत्यत्वं नो ऽथ कीदृशम्
वनिता स्वामिनीकृत्ये किं फलं मोक्ष्यते परम्
युद्धं शाम्यतु चास्माकं देहशस्त्रक्षतिप्रदम्
युद्धे मृत्युर्भवेदेव इति तत्र प्रमैव का
आलस्यसदृशं नास्ति चित्तविश्रान्तिदायकम्
तस्या राज्ञीत्वमपि नः समवायेन कल्पितम्
नष्ट सत्त्वा च सा राज्ञी कान्नः शिक्षां करिष्यति
शक्तयो निद्रया द्वारे घूर्णमाना इवाभवन्
शिथिलं चाभवत्सर्वं शक्तीनां कटकं महत्
जयविघ्नं महायन्त्रमिति कृत्वा स दानवः
द्वितीययुद्धदिवसस्यार्धरात्रे गते सति
आजगाम पुनर्दैत्यो विशुक्रः कटकं द्विषाम्
तथापि ता निरुद्योगाः शक्तयः कटके ऽभवन्
अस्पृष्टे मन्त्रिणीदण्डनाथे चिन्तामवा पतुः