मूर्च्छया लुप्तहृदयो निष्पपात नुपासनात्
भण्डमाश्वासयामासुर्दैवस्य कुटिलक्रमैः
लपसि त्वे प्रति सुतान्प्राप्तमृत्यून्महाहवे
अशोच्यमाहवे मृत्युं प्राप्नुवन्ति यदर्हितम्
यत्स्त्री समागत्य हठान्नि हन्ति सुभटान्रणे
भण्डेन चण्डकालाग्निसदृशः क्रोध आदधे
विस्फारिताक्षियुगलो भृशं जज्वाल तेजसा
शकलीकृत्य समरे श्रमं प्राप्स्यामि बन्धुभिः
खड्गं विधुन्वन्नुत्थाय प्रचचाला तिमत्तवत्
वाचमूचुरतिक्रोधाज्ज्वलन्तो ललितां प्रति
अस्माभिः स्वबलैर्युक्तै रणोत्साहो विधीयते
विमर्द्दयितुमीशाः स्मः किमु तां मुग्धभामिनीम्
अधरोत्तरमेवैतत्त्रैलोक्यं करवाम वा
पिन्षाम हरित्पालानाज्ञां देहि महामते
उवाच वचनं क्रुद्धः प्रतिघारुणलोचनः
जयविघ्नं महायन्त्रं कर्त्तव्यं कटके द्विषाम्
मायातिरोहितवपुर्जगाम ललिताबलम्
पर्यस्तकिरणस्तोमपाटलीकृतदिङ्मुखः
अनुवव्राज पातालकुञ्जे रन्तुमिवोत्सुका
चरमाब्धेरिव पयःकणास्तारा विरेजिरे
सार्थं कर्त्तुमिवोद्युक्तं सवर्णस्यासिदुर्धिया
अदृश्यवपुरापेदे ललिताकटकं खलः
शतयोजनविस्तारामालोकयत् दुर्मतिः
दक्षिणं द्वारमासाद्य निदध्यौ क्षणमुद्धतः
आरूढयानाः सनद्धवर्माणो द्वारदेशतः
सर्वदा द्वाररक्षार्थं निर्दिष्टा दण्डनाथया
शालस्य बहिरेवासौ स्थित्वा यन्त्रं समातनोत्
शिलापट्टे सुमहति प्रालिखद्यन्त्रमुत्तमम्
अष्टभिर्दैवतैश्चैव युक्तं यन्त्रं समालिखत्
क्लीबा च निरहङ्कारा चेत्यष्टौ देवताः स्मृताः