प्रणामाञ्जलिजालानि कर्णीरथकृतासना
तस्याः प्रादेशिकं सैन्यं कुमार्या न हि विद्यते
ततः प्रववृते युद्धमत्युद्धतापराक्रमम्
यद्युद्धमतनोत्तत्तु स्पृहणीयं सुरासुरैः
कर्मीरथस्थामालोक्य किरन्तींशरमण्डलम्
व्यजिज्ञपन्महाराज्ञ्यै भ्रमन्त्यः परिचारिकाः
प्रेक्षकत्व मनुप्राप्ते तृष्णीमेव बभूवतुः
प्रत्येकभिन्ना ददृशे बिंबमालेव भास्वतः
रक्तोत्पलमिव क्रोधसंरक्तं बिभ्रती मुखम्
साधुवादैर्बहुविधैर्मत्रिणीदण्डनाथयोः
द्वितीयं युद्धदिवसं समस्तमपि सा रणे
अस्त्रप्रत्यस्त्रमोक्षेण तान्सर्वानपि भिन्दती
द्विशत्यक्षौहिणीसैन्यं भस्मसादकरोत्क्षणात्
आकृष्टगुरुधन्वानस्ते ऽपतन्नेकहेलया
युगपत्त्रिंशतो बाणानसृजत्सा कुमारिका
त्रिंशता त्रिंशतो भण्डपुत्राणा साहतं शिरः
अत्यन्तविस्मयाविष्टा वबृषुः पुष्पमभ्रगाः
मन्त्रिणीदण्डनाथाभ्यामालिङ्ग्यत भृशं मुदा
शक्तयस्तुमुलं चक्रुः साधुवादैर्जगत्त्रयम्
तदाश्चर्यं महाराज्ञ्यै निवेदयितुमुद्गताः
पुत्रीभुजावदानानि श्रुत्वा प्रीतिं समाययौ
अदृष्टपूर्वैर्देवेषु विस्मयस्य वशं गतम्
विललाप स दैत्येन्द्रो मत्वा जातं कुलक्षयम्
हा मन्नेत्रसुधापूरा हा मत्कुलविवर्धनाः
हा समस्तसुरस्त्रीणामन्तर्मोहनमन्मथाः
किमिदानीमिमं तातमवमुच्य सुखं गताः
रिक्तानि मम गेहानि रिक्ता राजसभापि मे
कथमेकपदे दुष्टा वनिता संगरे ऽवधीत्
इतः परं कुले क्षीणे साहसानि सुखानि च
नाशो ऽयं भवतामद्य जातो नष्टस्ततो ऽस्म्यहम्