दुर्विदग्धां तां ललितां बन्दीकुर्मश्च सर्वरम्
आसेदुरग्निप्राकारसमीपं भण्डसूनवः
भ्रुकुटीकुटिलाश्चक्रुः सिंहनादंमहात्तरम्
उत्पातवारिदोत्सृष्टघोरनिर्घातरंहसा
क्षोभयामास शक्तीनां श्रवांसि च मनांसि च
विविधायुधसम्पातमूर्च्छद्वैमानिकच्छटम्
आगतान्युद्धकृत्याय बाला कौतूहलं दधे
समस्तशक्तिचक्राणां पूज्य विक्रमशालिनी
या सदा नववर्षेव सर्वविद्यामहाखनिः
महाराज्ञी पादपीठे नित्यमाहितसंनिधिः
तानागतान्भण्डसुतान्संहरिष्यामि सत्वरम्
मातर्भण्डमहादैत्यसूनवो योद्धुमागताः
सफुरन्ताविव मे बाहू युद्धकण्डूययानया
अहं हि वालिका नित्यं क्रीडनेष्वनुरागिणी
इति विज्ञापिता देवी प्रत्युवाच कुमारिकाम्
नवीनयुद्धशिक्षा च कुमारी त्वं ममैकिका
ममोच्छ्वसितमेवासि न त्वं याहि महाहवम्
संत्येव समरे कर्तुं वत्से त्वं किं प्रमाद्यसि
कौमारकौतुकाविष्टा पुनर्युद्धमयाचत
अनुज्ञां कृतवत्येव गाढमाश्लिष्य बाहुभिः
स्वायुधेभ्यश्चायुधानि वितीर्यविससर्ज ताम्
हंसयुग्यशतैर्युक्तमारुरोह कुमारिका
बद्धाञ्जलिपुटा नेमुः प्रधृतासिपरंपराः
अवरुह्य तले सैन्यं वर्तमानमगाहत
मन्त्रिणीदण्डनाथे च सभये वाचमूचतुः
अकाण्डे किं महाराज्ञ्या प्रेषितासि रणं प्रति
त्वं मूर्तं जीवितमसि श्रीदेव्या बालिके यतः
इति ताभ्यां प्रार्थितापि प्राचलद्दृढनिश्चया
सहैव तस्या रक्षार्थं चेलतुः पार्श्वयोर्द्वयोः
प्रभूतसेनायुक्ताभ्यां निर्जगाम कुमारिका